Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 263
________________ सटीकम् । २५१ चक्रनेमिक्रमेण चक्रस्य रथाङ्गस्य नेभिस्तदन्तश्चक्रम् । " चक्रं रम्राङ्ग तस्यान्ते नेमिः स्त्री स्यात्प्रधीः पुमान् " इत्यमरः । तस्याः क्रमेण क्रमशः। नीचैरधस्तात् । उपरि च ऊर्ध्वमपि । गच्छति प्रवर्तते जन्तोः सुखदुःखे पर्यावर्तेते । न ध्रुवभूते इत्यर्थः ॥ ४५ ॥ इतः पूर्वार्धपादबेष्टितेन पश्चार्धपादवेष्टितम्यस्मिन्काले समजनि मुनेः केवलं ज्ञानसम्पद्यस्मिन्दैत्यो गिरिमुदहरन्मूर्ध्नि चिक्षेप्सुरस्य । तत्कालं सा शरदुदभवद्वक्तुकामेतिवोच्चैः । शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ ॥ ४६ ॥ यस्मिन्निति ।। यस्मिन् यस्मिन्काले । दैत्यः असुरः । अस्य पार्श्वतीर्थनाथस्य । मूर्ध्नि मस्तके । " मूर्धा ना मस्तकोऽस्त्रियाम् ” इत्यमरः । चिक्षेप्सुः क्षेमुमिच्छुः । गिरिं पर्वतम् । उदहरत् धरति स्म । तस्मिन् काले । मुनेः पार्श्वनाथस्य । केवलज्ञानसम्पत् कैवल्यवेधसम्पत्तिः । समजनि जायते स्म । शार्ङ्गपाणौ शार्ङ्ग पाणौ यस्य तस्मिन् विष्णौ । ' प्रहरणात्सप्तमी च' इति पाणिशब्दस्य विकल्पतः पूर्वनिपातः । भुजगशयनात् भुजगः शेष एव शयनं तस्मात् । उत्थिते उत्तिष्ठते स्म उत्थितः तस्मिन्सति । मे मम । शापान्त इति । शपनावसानमिति । सा शरत् शरदृतुः । तत्कालं शापकालम् । उच्चैः अधिकम् । वक्तुकामा वा वक्तुं कामा तथोक्ता वक्तुमिच्छन्तीव । वाशब्द इवार्थे । उदभवत् उद्बभूव । शरत्कालादिरेव हरिप्रबोधनकालः । तस्मिन् शरत्कालादौ स्वामिनः केवलज्ञानं समजायतेति भावः॥४६॥ ज्योत्स्नाहासं दिशिदिशि शरत्तन्वती प्रादुरासी दैत्यस्यास्य प्रहसितुमिवासानवृत्तिं दुरन्ताम् । वैमल्येन स्फुटमिति दिशां रुन्धती वोष्णकालं मासानन्यान्गमय चतुरो लोचने मीलयित्वा ॥ ४७ ॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292