Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 261
________________ सटीकम् । २४९ " " अधीरे कातरस्रस्ते भीरुभीरुकभीलुका: ” इत्यमरः । युष्मदीयप्रवृत्तिं भवत्सम्बन्धिक्षेमवार्ताम् । " दोश्छः " इति छत्यः । “ वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् " इत्यमरः । अप्राक्षम् अपृच्छम् । पृच्छ ज्ञीप्सायां लुङ् ॥ तव कुशलोद्न्तं तानशृणवमिति भावः ।। ४२ । 66 इष्टे वस्तुन्यतिपरिचितं यत्तदप्यङ्गनानाम् । प्रीतेर्हेतुर्भवति नियतं यत्त्वदङ्गानुरोधात् ॥ आलिंग्यन्ते गुणवति मया ते तुषाराद्रिवाताः । पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३ ॥ ॥४८॥४५॥ 1 । इष्ट इति ॥ यत् यस्माद्धेतोः । गुणवति गुणोस्यास्तीति गुणवान् तस्मिन् गुणविशिष्टे । इष्टे अभिमते । यद्वस्तुनि । अतिपरिचितम् अत्यभ्यस्तम् । तत् तदपि । इष्टवस्तुनि परिचितवस्तुष्वपि । अङ्गनानां वनितानाम् । प्रीतेः प्रेम्णः । नियतं निश्चितम् । हेतुः कारणम् । भवति । तस्माद्धेतोः । एभिः एतैः । पूर्व प्राक् । तव ते । अङ्ग शरीरम् । स्पृष्टं भवेद्यदि संश्लिष्टं स्याचेत् । किलेति सम्भाव्यमेतदिति बुद्धिरित्यर्थ: । “ वार्तासम्भाव्ययोः किल " इत्यमरः । ते तुषाराद्रिवाताः ते हिमवदचलानिलाः । त्वदङ्गानुरोधात् तव शरीरानुवर्तनात् । " अनुरोधोऽनुवर्तनम् " इत्यमरः । तव शरीरं यथा तथेत्यर्थः । मया कान्तया । आलिङ्ग्यन्ते आश्लिष्यन्ते ॥ ४३ ॥ तन्मे वीर प्रतिवचनकं देहि युक्तं वृथाशाम् । माकार्षीम यदि च रुचितं ते तदाभाष्यमेतत् ॥ नन्वात्मानं बहुविगणयन्नात्मनैवावलम्बे । तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ॥ ४४ ॥ तदिति ॥ तत् तस्मात् । वीर भो दानवीर । " शूरो वीरव

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292