Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 260
________________ २४८ पार्थाभ्युदयकाव्यं इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे ___ गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥४१॥४७॥४४ कामावेश इति ॥ महति अनल्पे । कामावेशे मन्मथस्यावेशे तदवस्थाप्रवेश इत्यर्थः । विहितोत्कण्ठं विहितमुत्कण्ठं यथा तथा। आबाधमाने आबाधत इत्याबाधमानस्तस्मिन् सति व्यथयति सति । चटुलनयने चञ्चलहशि अनासक्तदृष्टावित्यर्थः । त्वयि भवति । आसक्तं प्रीतिगतं प्राप्तम् । मे मम । चेतः चित्तम् । चटुलनयने त्वयि । अनुगतप्राणम् अनुगता अनुकूलतां गताः प्राप्ताः प्राणा यस्य तत् । मे चेतश्च । दुर्लभप्रार्थनं दुःप्राप्ययाचनम् अलभ्यमानमनोरथमित्यर्थः । एतद्यं च एतयोर्द्वयमपि । गाढोष्णाभिः अतितीवाभिः । त्वद्वियोगव्यथाभिः भवद्वियोगपीडाभिः । इत्थम् एवम् । अशरणम् अनाथम् । कृतं विहितम् । “ शरणं गृहरक्षित्रोः " इत्यमरः ॥४१॥ तानप्राक्षं मदनविवशा युष्मदीयप्रवृत्तिम् प्रत्यावृत्तान् हिमवदनिलान् कातरा मत्समीपम् । भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणाम् ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ ४२ ॥ तानिति ॥ ये वायवः । देवदारुद्रुमाणां देवदारुवृक्षाणाम् । किसलयपुटान् पल्लवपुटान् । सद्यः तत्क्षणमेव । भित्त्वा विभिद्य । तत्क्षीरसुतिसुरभयः तत्पल्लवानां क्षीरमृतिभी रसस्यन्दनैः सुरभयः सुगन्धाः । दक्षिणेन अवाचीनमार्गेण । प्रवृत्ताः निर्गताः । तान् मत्समीपं मम निकटदेशम् । प्रत्यावृत्तान् प्रत्यागतान् । हिमवदनिलान् हिमवत्पर्ववसम्बधिनो वातान् हिमवदचलतः प्रस्थायिनो दक्षिणस्थमलयाचलस्य देवदारुद्रुमाणां गन्धमवाप्य पुनरागतान् वायूनित्यर्थः । मदनविवशा मन्मथाक्रान्ता । कातरा अधीरवत्यहम् ।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292