________________
२४८
पार्थाभ्युदयकाव्यं इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे ___ गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥४१॥४७॥४४
कामावेश इति ॥ महति अनल्पे । कामावेशे मन्मथस्यावेशे तदवस्थाप्रवेश इत्यर्थः । विहितोत्कण्ठं विहितमुत्कण्ठं यथा तथा। आबाधमाने आबाधत इत्याबाधमानस्तस्मिन् सति व्यथयति सति । चटुलनयने चञ्चलहशि अनासक्तदृष्टावित्यर्थः । त्वयि भवति । आसक्तं प्रीतिगतं प्राप्तम् । मे मम । चेतः चित्तम् । चटुलनयने त्वयि । अनुगतप्राणम् अनुगता अनुकूलतां गताः प्राप्ताः प्राणा यस्य तत् । मे चेतश्च । दुर्लभप्रार्थनं दुःप्राप्ययाचनम् अलभ्यमानमनोरथमित्यर्थः । एतद्यं च एतयोर्द्वयमपि । गाढोष्णाभिः अतितीवाभिः । त्वद्वियोगव्यथाभिः भवद्वियोगपीडाभिः । इत्थम् एवम् । अशरणम् अनाथम् । कृतं विहितम् । “ शरणं गृहरक्षित्रोः " इत्यमरः ॥४१॥ तानप्राक्षं मदनविवशा युष्मदीयप्रवृत्तिम्
प्रत्यावृत्तान् हिमवदनिलान् कातरा मत्समीपम् । भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणाम्
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ ४२ ॥ तानिति ॥ ये वायवः । देवदारुद्रुमाणां देवदारुवृक्षाणाम् । किसलयपुटान् पल्लवपुटान् । सद्यः तत्क्षणमेव । भित्त्वा विभिद्य । तत्क्षीरसुतिसुरभयः तत्पल्लवानां क्षीरमृतिभी रसस्यन्दनैः सुरभयः सुगन्धाः । दक्षिणेन अवाचीनमार्गेण । प्रवृत्ताः निर्गताः । तान् मत्समीपं मम निकटदेशम् । प्रत्यावृत्तान् प्रत्यागतान् । हिमवदनिलान् हिमवत्पर्ववसम्बधिनो वातान् हिमवदचलतः प्रस्थायिनो दक्षिणस्थमलयाचलस्य देवदारुद्रुमाणां गन्धमवाप्य पुनरागतान् वायूनित्यर्थः । मदनविवशा मन्मथाक्रान्ता । कातरा अधीरवत्यहम् ।