________________
सटीकम् ।
२४७ अनेन प्रकारेण । कामाकुलितहृदया कामेन आकुलितं भ्रान्तं हृदयं चित्तं यस्याः सा । चक्रवाकीव चक्रवाकवनितेव । तप्ता विरहदग्धा । प्राणारक्षं प्राणानामारक्षस्तम् असुपालकम् । भवन्तं त्वाम् । चिन्तयन्ती स्मरन्ती सती । बहुशः बहुवारम् । श्वसिमि उच्छासं विदधामि ॥ ३९ ॥ ज्योत्स्नापातं मम विषहितुं नोतरां शक्नुवन्त्याः
सर्वावस्थाखहरपि कथं मन्दमन्दातपं स्यात् । आचित्तेशप्रथमपरिरम्भोदयादित्यभीक्ष्णम् . ध्यायामीदं मदनपरतासर्वचिन्तानिधानम् ॥ ४०॥ . ज्योत्स्नापातमिति ॥ आचित्तेशप्रथमपरिरम्भोदयात् प्राणेशस्य प्रथमस्य परिरम्भस्यालिङ्गनस्योदय उद्भवस्तस्य पर्यन्तम् । “ अभिविधौ वाड्या गादाङ्” इति पञ्चमी । “ आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे । ” “ परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम्" इत्युभयत्राप्यमरः । ज्योत्स्नापातं चन्द्रिकापतनम् । विषहितुं सोढुम् । नोतरां शक्नुवन्त्याः अत्यर्थमशक्नुवन्त्याः । मम मे । सर्वावस्थासु निखिलदशासु सर्वदेत्यर्थः । अहरपि दिनमपि । मन्दमन्दातपं मन्दोमन्दो मन्दप्रकारः आतपो यस्मिन् तत् । “रीद्गुणः सदृशे वा” इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु” इति कर्मधार• यवद्भावात् सुपो लुक् । मन्दमन्दातपम् अत्यल्पसन्तापम् । कथं स्यादिति केन वोपायेन भवेदिति । अभीक्ष्णं शश्वत् । मदनपरतासर्वचिन्तानिधानं मदनपरतायाः मन्मथपरवशतायाः सर्वाश्च ताश्चिन्ताश्च तासां निदानं प्रथमं कारणम् । “ निदानं त्वादिकारणम्" इत्यमरः । इदमेतत् । ध्यायामि मन्मथस्यावेशे स्मरामि ॥४०॥ कामावेशे महति विहितोत्कण्ठमाबाधमाने
त्वय्यासक्किं गतमनुमतप्राणमेतयं च।