SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४६ पार्धाभ्युदयकाव्यं तांतां चेष्टां रहसि निहितां मन्मथेनामदङ्गे त्वत्संपर्कस्थिरपरिचयावाप्तये भाव्यमानम् । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानाम् मुक्तास्थूलास्तरुकिसलयेप्वश्रुलेशाः पतन्ति ॥३८॥४६॥४३॥ तामिति ॥ रहसि एकान्ते । अस्मदङ्गे अस्माकं शरीरे । मन्मथेन कामेन । निहितां स्थापिताम् कृतामित्यर्थः । त्वत्सम्पर्कस्थिरपरिचयप्राप्तये । तव संसर्गस्य चिराभ्यासप्राप्तये । भाव्यमानां तांताम् । वीप्सायां द्विः। चेष्टां व्यापृतिम् । पश्यन्तीनां साक्षात्कुर्वन्तीनाम्। स्थलीदेवतानां स्थलदेवतानाम् । " द्वावप्यन्यलिङ्गौ स्थलं स्थली" इत्यमरः । वनदेवतानामित्यर्थः । मुक्तास्थूलाः मौक्तिकानीव स्थूलाः अश्रुलेशाः बाष्पबिन्दवः । तरुकिसलयेषु वृक्षपल्लवेषु । आननचेलाञ्चलेन । अश्रुधारणसमाधिव॑न्यते । बहुशो भूरिशः । न पतन्तीति न खलु किन्तु पतन्त्येवेत्यर्थः । निश्चये नवयप्रयोगः । तथा च स्मृतिनिश्चयसिद्धार्थे नद्वयप्रयोगः इति।"महात्मगुरुदेवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महादुःखं मरणं च भवेद्भुवं ” इति ॥३८॥ संक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा प्राणाधीशे विधिविघटिते दूरवर्तिन्यभीष्टे । इत्थं कामाकुलितहृदया चिन्तयन्ती भवन्तम् प्राणारक्षं श्वसिमि बहुशश्चक्रवाकीव तप्ता ॥ ३९ ॥ संक्षिप्येतेति ॥ विधिविघटिते विधिवियोजिते । अभीष्टे समीहिते । प्राणाधीशे प्राणनायके । दूरवर्तिनि सति । दीर्घयामा दीर्घा यामाः प्रहराः यस्याः सा विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः । “ त्रियामा क्षणदा क्षपा" इत्यमरः । आशुत्तरयोरर्धयामयोर्दिनव्यवहारात्क्षपायाखियामता । क्षणमिव क्षणकालपरिमाणमिव । कथं केन वा प्रकारेण । संक्षिप्येत लघुक्रियेत । इत्वम्
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy