________________
सटीकम् ।
मामिति । खप्रजातात् स्वप्नसम्भूतात् । त्वदुपगमनप्रत्ययात् तवागमनविश्वासात् । निर्दयालेषहेतोः निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य दृढसंश्लेषार्थमित्यर्थः।“हेतौ हेत्वर्थैरः" इति षष्ठी। आकाशप्रणिहितभुजम् आकाशे निर्विषये प्रणिहितौ प्रसारितौ भुजौ यस्मि न्कर्मणि तत् । उत्तिष्ठासुम् उत्थातुमिच्छुम् । मां कामिनीम् । दृष्ट्वा प्रेक्ष्य । सकरुणमृदुव्यावहासिं करुणासहितं मृदु व्यावहासिं हास्यम् । दधानाः दुधतीति दुधानाः । कामोन्मुग्धाः कामेन मूढाः । सख्यः वयस्यः । विबुद्धां प्रबुद्धवतीम् । स्मरयितुं स्वप्नावस्थां ज्ञापयितुम् । संश्रयन्ते समीपमागच्छन्ति । अहो आश्चर्यम् ॥ ३६ ॥
२४५
निद्रासंगादुपहितरतेर्गाढमाश्लेषवृत्ते
र्लब्धायास्ते कथमपि मया खप्नसंदर्शनेषु । विश्लेषस्स्याद्विहितरुदितैरादितैराशुबोधैः
कामोsसह्यं घटयतितरां विप्रलंभावतारं ॥ ३७ ॥ निद्रासङ्गादिति ॥ निद्रासङ्गात् निद्रासम्बद्धात् । स्वप्नसंदर्शनेषु सुप्तस्य विज्ञापनं स्वप्नः । सुप्तस्य विज्ञाने । “दर्शनं समये शास्त्र दृष्टौ स्वप्रेक्षणे सवित्" इति शब्दार्णवे । स्वप्न इति संदर्शनानि विज्ञानानि तथोक्तानि । चूतवृक्षवत् सामान्यविशेषभावेन सहप्रयोगः । तेषु । मया कान्तया । कथमपि महतापि यत्नेन । लब्धायाः गृहीतायाः दृष्टाया इति यावत् । उपहितरतेः प्रवृद्धप्रीतेः । ते तव । गाढं दृढम् । आश्लेषवृत्तेः आलिङ्गनवृत्तेः । आधिजैः पुनः पीडाप्रभवैः । “पुस्याधिर्मानसी व्यथा " इत्यमरः । विहितरुदितैः विहितरोदनैः । आशुबोधैः शीघ्रबोधैः क्षणनिद्राभङ्गैरित्यर्थः । बोधैः प्रबोधैः जागरणैरित्यर्थः । आशु शीघ्रम् । विश्लेषः विगमनम् । स्याद्भवेत् । तथाहि । कामः मन्मथः । असह्यं तीव्रम् । विप्रलम्भावतारं विप्रयोगावतरणम् । घटयतितराम् उत्कृष्टं सन्दर्भयति । आशुप्रबोधवशात्स्वप्नजो व्याश्लेषो ढं न प्राप्यत इति भावः ॥ ३७ ॥