Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२४६
पार्धाभ्युदयकाव्यं तांतां चेष्टां रहसि निहितां मन्मथेनामदङ्गे
त्वत्संपर्कस्थिरपरिचयावाप्तये भाव्यमानम् । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानाम्
मुक्तास्थूलास्तरुकिसलयेप्वश्रुलेशाः पतन्ति ॥३८॥४६॥४३॥ तामिति ॥ रहसि एकान्ते । अस्मदङ्गे अस्माकं शरीरे । मन्मथेन कामेन । निहितां स्थापिताम् कृतामित्यर्थः । त्वत्सम्पर्कस्थिरपरिचयप्राप्तये । तव संसर्गस्य चिराभ्यासप्राप्तये । भाव्यमानां तांताम् । वीप्सायां द्विः। चेष्टां व्यापृतिम् । पश्यन्तीनां साक्षात्कुर्वन्तीनाम्। स्थलीदेवतानां स्थलदेवतानाम् । " द्वावप्यन्यलिङ्गौ स्थलं स्थली" इत्यमरः । वनदेवतानामित्यर्थः । मुक्तास्थूलाः मौक्तिकानीव स्थूलाः अश्रुलेशाः बाष्पबिन्दवः । तरुकिसलयेषु वृक्षपल्लवेषु । आननचेलाञ्चलेन । अश्रुधारणसमाधिव॑न्यते । बहुशो भूरिशः । न पतन्तीति न खलु किन्तु पतन्त्येवेत्यर्थः । निश्चये नवयप्रयोगः । तथा च स्मृतिनिश्चयसिद्धार्थे नद्वयप्रयोगः इति।"महात्मगुरुदेवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महादुःखं मरणं च भवेद्भुवं ” इति ॥३८॥ संक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा
प्राणाधीशे विधिविघटिते दूरवर्तिन्यभीष्टे । इत्थं कामाकुलितहृदया चिन्तयन्ती भवन्तम्
प्राणारक्षं श्वसिमि बहुशश्चक्रवाकीव तप्ता ॥ ३९ ॥ संक्षिप्येतेति ॥ विधिविघटिते विधिवियोजिते । अभीष्टे समीहिते । प्राणाधीशे प्राणनायके । दूरवर्तिनि सति । दीर्घयामा दीर्घा यामाः प्रहराः यस्याः सा विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः । “ त्रियामा क्षणदा क्षपा" इत्यमरः । आशुत्तरयोरर्धयामयोर्दिनव्यवहारात्क्षपायाखियामता । क्षणमिव क्षणकालपरिमाणमिव । कथं केन वा प्रकारेण । संक्षिप्येत लघुक्रियेत । इत्वम्

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292