Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 250
________________ २३८ पार्धाभ्युदयकाव्यं दूरागाढप्रणयदिवसो मन्मथेनातिभूमि नीतो बिभ्यत्त्वदभिसरणादुत्सुकः स्त्रीजनस्त्वाम् । उष्णोच्छासं समधिकतरोच्छासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥२६॥४२॥३९॥ दूरेति ॥ दूरागाढप्रणयदिवसः दूरागाढो दृढः प्रणयस्य विश्वासस्य दिवसो यस्य तथोक्तः । मन्मथेन मदनेन। अतिभूमि विपत्तिम् । नीतः प्रापितः । बिभ्यत् त्वदभिसरणात् तवाभिगमनात् । उत्सुकः लालसः । दूरवर्ती दूरस्थः न वागन्तुं शक्यत इत्यर्थः। वैरिणा विरोधिना । विधिना दैवेन । “ विधिविधाने दैवेपि " इत्यमरः । रुद्धमार्गः प्रतिबद्धवा । स्त्रीजनः अबलालोकः । समधिकतरोच्छ्रासिना दीर्घनिश्वासवता। ताच्छीलिको णीम्। उष्णोच्छासं तीव्रविरहश्वासम् । “ तिग्मं तीक्ष्णं खरं तीव्र चण्डमुष्णवशस्मृतिः” इति हलायुधः । त्वां भवन्तम् । तैः सङ्कल्पैः स्वसंवेद्यैर्मनोरथैः । एकीभवतीत्यर्थः ॥ २६ ॥ सोऽयं त्वत्तः प्रणयकणिकामप्यलब्ध्वा विलक्षो दूरात्सेवां तव वितनुते पश्य साधो वधूनाम्। शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७ ॥ स इति॥ यः सखीनां वयस्यानाम् । पुरस्तादने । आननस्पर्शलो. भात् त्वन्मुखसम्पर्कलोभात् यदपि । शब्दाख्येयं शब्देन रवेणाख्येयम् उच्चैर्वाच्यमपि । यत्तद्वचनमपीति शेषः । ते तव । कर्णे श्रोत्रे। कथयितुं वक्तुम् । लोलः अलसः ।अभूत् किल अभवत् खलु । "लो लुपे लोलुभो लोलो लम्पटो चालसेऽपि च" इति यादवः । सोऽयम् वधूनां स्त्रीणाम् । सार्थः समूहः । “ सङ्घसाौँ तु जन्तुभिः" इत्य

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292