Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 249
________________ सटीकम् । २३७ औदासीन्यम् । समुझेः व्युत्सृज । ननु भो साधो । इह अस्मिन्नवसरे । कुशलकलितं क्षेमयुतम् । नित्यं स्थिरम् । आयुष्मत्वं दीर्घजीवित्वम् । आशाधि प्रार्थय । तथाहि सुलभविपदां सुलभा विपदो येषां तेषां चलसम्पदाम् इत्यर्थः । प्राणिनाम् असुभृताम् । एतदेव आयुष्मत्त्वमेव । पूर्वाशास्यं पूर्वमभिलषणीयम् ।स्यादिति शेषः॥२४॥ मायया नारीरूपं दर्शयति-इतोऽर्धवेष्टितानिसैषा बाला प्रथमकथिता पूर्वजन्मप्रिया ते __ पश्यायाता रहसि परिरभ्यानुमोदं नयेत्त्वाम् । अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं ___ सास्रणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ २५ ॥ सेति ॥ ते तव । पूर्वजन्मप्रिया प्राग्भवकान्ता । प्रथमकथिता प्राग्भाषिता । सैषा सेयम् । बाला युवतिः । “ नितम्बिन्यबला बाला" इति धनञ्जयः । आयाता आगता । पश्य प्रेक्षस्व । “ पाघ्राध्मा" इत्यादिना दृशेः पश्यादेशः । तनुना कृशेन । अङ्गेन देहेन । तनु च कृशं च । अङ्गं देहम्। गाढतप्तेन भृशंसंतप्तेन अस्रेण बाष्पाम्बुना। तप्तं विरहदुःखोष्णम् । अस्रद्रवम् अश्रुधाराम् । “रोदनं चास्रमश्रुच" इत्यमरः । उत्कण्ठितेन उत्कृष्टवेदनया । अविरतोत्कण्ठम् अविच्छिनवेदनाम । अत्रान्यथान्वयोपायः। तनुना कृशेन । गाढतप्तेन उष्णतरेण । सास्रेण अस्रेण सहितं सायं तेन । उत्कण्ठितेन सञ्जातोत्कण्ठेन । अङ्गेन निजदेहेन । तनु च कृशं च । तप्तं विरहदग्धम् । अस्रद्रवम् अश्रुक्लिन्नम् । अविरतोत्कण्ठम् अविच्छिन्नवेदनम् । अङ्गं त्वदेहम् । रहसि एकान्ते । परिरभ्य आलिङ्गय । त्वां भवन्तम् । अनुमोदम् आनुकूल्यम् । नयेत् प्रापयेत्। अत्र समानानुरागित्वज्ञापनात् नायके नायिकायाः स्वसमानावस्थात्वम् ॥ २५ ॥ ...१ तत्प्राप्तीच्छां ससंकल्पामुत्कंठां कवयो विदुः ॥ ...

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292