________________
सटीकम् ।
२३७
औदासीन्यम् । समुझेः व्युत्सृज । ननु भो साधो । इह अस्मिन्नवसरे । कुशलकलितं क्षेमयुतम् । नित्यं स्थिरम् । आयुष्मत्वं दीर्घजीवित्वम् । आशाधि प्रार्थय । तथाहि सुलभविपदां सुलभा विपदो येषां तेषां चलसम्पदाम् इत्यर्थः । प्राणिनाम् असुभृताम् । एतदेव आयुष्मत्त्वमेव । पूर्वाशास्यं पूर्वमभिलषणीयम् ।स्यादिति शेषः॥२४॥
मायया नारीरूपं दर्शयति-इतोऽर्धवेष्टितानिसैषा बाला प्रथमकथिता पूर्वजन्मप्रिया ते __ पश्यायाता रहसि परिरभ्यानुमोदं नयेत्त्वाम् । अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं ___ सास्रणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ २५ ॥
सेति ॥ ते तव । पूर्वजन्मप्रिया प्राग्भवकान्ता । प्रथमकथिता प्राग्भाषिता । सैषा सेयम् । बाला युवतिः । “ नितम्बिन्यबला बाला" इति धनञ्जयः । आयाता आगता । पश्य प्रेक्षस्व । “ पाघ्राध्मा" इत्यादिना दृशेः पश्यादेशः । तनुना कृशेन । अङ्गेन देहेन । तनु च कृशं च । अङ्गं देहम्। गाढतप्तेन भृशंसंतप्तेन अस्रेण बाष्पाम्बुना। तप्तं विरहदुःखोष्णम् । अस्रद्रवम् अश्रुधाराम् । “रोदनं चास्रमश्रुच" इत्यमरः । उत्कण्ठितेन उत्कृष्टवेदनया । अविरतोत्कण्ठम् अविच्छिनवेदनाम । अत्रान्यथान्वयोपायः। तनुना कृशेन । गाढतप्तेन उष्णतरेण । सास्रेण अस्रेण सहितं सायं तेन । उत्कण्ठितेन सञ्जातोत्कण्ठेन । अङ्गेन निजदेहेन । तनु च कृशं च । तप्तं विरहदग्धम् । अस्रद्रवम् अश्रुक्लिन्नम् । अविरतोत्कण्ठम् अविच्छिन्नवेदनम् । अङ्गं त्वदेहम् । रहसि एकान्ते । परिरभ्य आलिङ्गय । त्वां भवन्तम् । अनुमोदम् आनुकूल्यम् । नयेत् प्रापयेत्। अत्र समानानुरागित्वज्ञापनात् नायके नायिकायाः स्वसमानावस्थात्वम् ॥ २५ ॥ ...१ तत्प्राप्तीच्छां ससंकल्पामुत्कंठां कवयो विदुः ॥ ...