________________
२३६
पार्धाभ्युदयकाव्यं तस्माल्लोकः प्रणयिनि जने स्थास्नुभावव्यपाया
दव्यापन्नः कुशलमबले पृच्छति त्वां नियुक्तः ॥ २३ ॥ विद्युदिति।। सम्पदः श्रियः। चञ्चलत्वात् । विद्युबल्लीविलसितनिभाः तडिल्लताविलासमानाःालब्धाभोगाःलब्ध आभोगो येषांते।"आभोगः परिपूर्णता" इत्यमरः । भोगाः इन्द्रियविषयाः । तत्क्षणादेव तत्समयादेव । नियतविपदः नियता विपद्विपत्तिर्येषां ते तथोक्ताः भवन्ति । तस्मात् कारणात्। अबले न विद्यते बलं यस्य तस्मिन् दुर्बले । प्रणयिनि प्रणयोऽस्यास्तीति प्रणयी तस्मिन् प्रेमवति। जने लोके । स्थास्तुभावव्यपायात् स्थिरतरभावस्य व्यपगमात् । तिष्ठतीत्येवंशीलः स्थास्नुः । “ ग्लास्थस्नुः" इति स्तुत्यः ॥ “स्थास्नुः स्थिरतरः स्थेयान" इत्यमरः । अव्यापन्नः अप्राप्तविपत्तिः । “ आपन्न आपत्प्राप्तः स्यात्" इत्यमरः । वियुक्तः वियोगदुःखी । नियुक्त इति वा पाठः । लोकः जनः । त्वाम् । कुशलं क्षेमम् । “ कुशलं क्षेममखियाम्" इत्यमरः । पृच्छति शृणोति । " दुहि याचि रुचि प्रच्छि” इत्यादिना पृच्छतेविकर्मकत्वम् ॥ २३ ॥ तद्भोक्तव्ये स्वयमुपनते शीतकत्वं समुज्झे
भृत्युव्याघ्रो द्रुतमनुपदी वाममन्विच्छतीतः। आयुष्मत्त्वं कुशलकलितं नन्विहाशाधि नित्यं पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥२४॥४१॥३८॥
तदिति ॥ इतः एतस्मात् । मृत्युव्याघ्रः मृत्युरेव व्याघ्रः । द्रुतं शीघ्रम् । अनुपदी अनुपद्यते इत्येवंशीलस्तथोक्तः अनुगामी । वाम प्रतिकूलम् । “ वामं प्रतिकूलेऽपि ” इति हलायुधः। “वामो वके मनोहरे” इति धनञ्जयः । अन्विच्छति अभिलषति । तत् तस्मात्। खयमुपनते स्वयमेवाप्ते भोक्तव्ये अनुभवनीये वस्तुनि । शीतकत्वम्