________________
सटीकम् ।
२३५ रोत्यादिवत् । सम्बन्धमात्रविवक्षायामात्मेति षष्ठीवचनं न विरुध्यते । व्यर्थक्लेशां निष्फलायासाम् । विरसां रसरहिताम् । तां मुनीनां वृत्तिं तद्यतिवर्तनम् । विसृज त्यज । किसलयमृदु पल्लवकोमलम् । वासः वस्त्रम् । “ वस्त्रमाच्छादनं वासः" इत्यमरः । मुखस्थायि वदनस्थायि । मुखे स्थाप्यते इत्येवंशीलम् । दिव्यम् अनर्घम् । ताम्बूलं वीटिकाम् । योषितां स्त्रीणाम् । प्रणयं च प्रीतिमपि । अचिरात् शीघेण । त्वं भवान् । उच्चैरधिकम् । मानय सम्भावय ॥ २१ ॥
श्रेयोमार्गः किल मुनिवरैः सेव्यते सौख्यहेतोः ___ सौख्यं द्वेधा सुरयुवतिजं मुक्तिलक्ष्म्याश्रयं च । दूरे मुक्तिः सुलभमितरत्सेव्यमन्योऽपि विद्वान्
ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ॥ २२॥ श्रेय इति ॥ मुनिवरैः यतिश्रेष्ठैः । सौख्यहेतोः सुखनिमित्तम् । श्रेयोमार्गः मोक्षमार्गः। “श्रेयो निःश्रेयसामृतम्" इत्यमरः । सेव्यते आराध्यते। किल “वार्तासम्भाव्ययोः किल" इत्यमरः। तथाहि । सौख्यं सुखमेव सौख्यम् । सुरयुवतिजं देववनिताजनितम् । मुक्तिलक्ष्म्याश्रयं च मोक्षलक्ष्मीसमाश्रयं चेति । द्विधा द्विविधं भवतीति शेषः । मुक्तिः मोक्षः । दूरे विप्रकृष्टदेशे । वर्तते इति शेषः। इतरत् अन्यत्। सुरयुवतिजं सुखम् । सुलभं सुखेन लभ्यते तत् । सेव्यमाराध्यम् । एवम् इत्थम् । तव भवतः । सहचरः सहायः मुनीन्द्र इत्यर्थः । राम गिर्याश्रमस्थः रामगिरेः चित्रकूटस्य आश्रमे निवासे तिष्ठतीति तथो. क्तः । अन्योपि अपरोऽपि । न केवलमहमेवेत्यपि शब्दार्थः। विद्वान् विपश्चित् । ब्रूयात् वदेत् ॥ २२ ॥ विद्युदल्लीविलसितनिभाः सम्पदश्चञ्चलत्वा
ल्लब्धाभोगा नियतविपदस्तत्क्षणादेव भोगाः।