SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पार्श्वाभ्युदयकाव्यं कामाङ्गं ते समुचितपदं सङ्गमं सानुबन्धं कान्तोपान्तात्सुहृदुपगमः सङ्गमात्किञ्चिदूनः॥ २०॥४०॥३७॥ २३४ श्रव्यमिति । तासां सीमन्तिनीनाम् । गेयं गीतम् । ते तव । श्रव्यं श्रवणीयम् । सानुबन्धं सम्बन्धसहितम् । नयनसुभगं नेत्ररमणीयम् । रूपं देहसौरूप्यम् । आलोकनीयं दर्शनीयम् । वदनसुरभिः मुखसुगन्धः । पेयः पातुं योग्यः । अङ्गम् अवयवः । स्पृश्यं स्प्रष्टुं योग्यम् । आघ्रायम् आम्रातुं योग्यम् । कामाङ्गं कामावयवभूतम् । सानुबन्धं सम्बन्धसहितम् । अनुकूलमित्यर्थः । इदमेतत् । “सङ्गमं शतमानार्म शंबलाव्ययताण्डवम् " इत्यमरः पुन्नपुंसकशेषः । ते तव । समुचितं सुयोग्यम् । भवतीति शेषः । तथाहि । कान्तोपान्तात् । कान्ताया उपान्तस्तस्मात् । सुहृदुपगमः मित्रागमनम् । “कान्तोदन्तः सुहृदुपनतः " इति वा पाठ: । सुहृदुपनतः सुहृन्मुखेन उपनतः प्राप्तः । कान्तोदन्तः कान्ताया उदन्तो वृत्तान्तस्तथोक्तः । “वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ” इत्यमरः । सङ्गमात् कान्तासम्पर्कात् । किश्चिदूनः कियन्न्यूनः । तद्वदेवानन्दकर इति भावः ॥ २० ॥ 1 तस्माद्वासः किसलयमृदु त्वन्मुखस्थायि दिव्यं ताम्बूलं च प्रणयमचिराद्योषितां मानयोच्चैः । व्यर्थशां विसृज विरसामार्यवृत्तिं मुनीनां तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम् ॥ २१ ॥ तस्मादिति ॥ तस्मात् कारणात् । आर्य भो पूज्य | आयुष्मन् । प्रशंसायां मतुः । हे परोपकारश्लाघ्यजीवन इत्यर्थः । मम वचनाच्च मे प्रार्थनायाश्च । आत्मनः स्वस्य । उपकर्तुं च परोपकारेणात्मानं कृतार्थयितुमपीत्यर्थः । उपकारक्रियायां प्रतिकर्मत्वेऽपि । तस्यानुक
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy