________________
सटीकम् ।
८८
उत्क
क्येन । उच्छ्रसितं विकसितं हृदयं यस्याः सा तथोक्ता । ण्ठोत्कलिके समे " इत्यमरः । त्वां भवन्तम् । वीक्ष्य दृष्ट्वा । सम्भाव्य चैव सत्कृत्यापि । प्रत्यासीदति आसन्नमागच्छति ॥ १८ ॥ अथ मायामयीं स्त्रीसंहतिं कल्पयन् गानमाविर्भावयतिमन्ये श्रोत्रं परुषपवनैर्दूषितं ते मदुक्तां
व्यक्तांकूतां समरविषयां संकथां नो शृणोति । तत्पारुष्यप्रहरणमिदं भेषजं विद्धि गेयं
श्रोष्यत्यस्मात्परमवहितं सौम्यसीमन्तिनीनाम् ॥ १९॥
२३३
፡፡
""
मन्य इति ।। ते तव श्रोत्रं श्रवणम् । परुषपवनैः निष्ठुरानिलैः । निष्ठुरं परुषम्" इत्यमरः । दूषितं निन्दितं सत् । " ऊहुषो णौ ” इत्यूत् । व्यक्ताकूतां प्रकटिताभिप्रायाम् । समरविषयां सङ्ग्रामगोचराम् । " अस्त्रियां समरानीकरणाः इत्यमरः । मदुक्तां मयोक्ताम् संकथां वार्ताम् । नो शृणोति नाकर्णयति । इति मन्ये जाने । सौम्य भो साधो । अथवा । सौम्यसीमन्तिनीनां सौम्याच ताः सीमन्तिन्यश्च तासां सुन्दरस्त्रीणाम् । “सौम्यं तु सुन्दरे सोमदेवते" "नारी सीमन्तिनी वधूः इत्यमरः । इदं श्रूयमाणमेतत् । गेयं गानम् । तत्पारुष्यप्रहरणं पवनपरुषत्वदोषनिवारणम् । भेषजम् औषधम् । " भेषजौषधभैषज्यानि " इत्यमरः । विद्धि जानीहि । अस्मादेतद्गानात् । अवहितम् अप्रशस्तं सत् । परं स्फुटम् । श्रोष्यति आकर्णयिष्यति ॥ १९ ॥
""
1
श्रव्यं गेयं नयनसुभगं रूपमालोकनीयं
पेयस्तासां वदनसुरभिः स्पृश्यमाघ्रायमङ्गम् ।
१ आकूतं तद्यत्र भावस्सोप्यभीष्टो विभाव्यते ।
२ आवेध्यारोप्य विक्षेप्य बंधनीयैरभूषितं । यद् भूषितमिवाभाति तद्रूप• मिति कथ्यते ।