________________
२३२
पार्धाभ्युदयकाव्यं पश्चन्त्यास्ते दशमुखपुरोद्यानवृक्षे सति स्या
_दित्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ॥ १७ ॥ . इतीति ॥ स दैत्यः । युद्धशौण्डः युद्धे मत्तः । “ मत्ते शौण्डोत्कटक्षीबा" इत्यमरः । इति एवंप्रकारेण । आध्यायन चिन्तयन् । पुनरपि । मुनिं योगिनम् । अभणीत् अब्रवीत् । इति कथितरीत्या । आख्याते आभाषिते सति । स्यादिति यथोक्तं तथैव भवेदिति । दशमुखपुरोद्यानवृक्षे दशमुखस्य रावणस्य पुरोद्यानस्य लङ्कोपवनस्य वृक्षे पादपे । विषयसप्तमी " वटे गावः सुशेरते " इतिवत्। मैथिली सीता । पवनतनयमिव हनूमन्तमिव । इह वनतरौ वनवृक्षे । मन्मथाक्लेशमुक्ता मदनस्याक्लेशेन रहिता।सा वीरस्त्री जयलक्ष्मीः । उन्मुखी उद्गतमुखी सती । त्वां भवन्तम् । पश्यन्ती प्रेक्षमाणा आस्ते वर्तते । वीरश्रीः प्रेक्षाभिधानात् युद्धसन्नद्धो भवेति ध्वन्यते ॥ १७ ॥
सङ्खये सङ्खयां सुभटविषयां पूरयन्नस्मदीये
हित्वा भीतिं त्वमधिशयितो वीरशय्यां यदास्याः। प्रत्यासीदत्यपहितरसा वीरलक्ष्मीस्तदैषा त्वामुत्कण्ठोच्छसितहृदया वीक्ष्य संभाव्य चैव ॥ १८ ॥
सङ्ख्य इति ॥ अस्मदीये अस्माकमिदमस्मदीयं तस्मिन् । सङ्ख्ये युद्धे । “ मृधमास्कन्दनं संख्यम्" इत्यमरः । सुभटविषयां सुयोधृगोचराम् । सङ्ख्यां गणनाम् । पूरयन् सम्पूर्ण वितन्वन् । त्वं भवान् । भीतिं भयम् । “भीतिीः साध्वसं भयम्" हित्वा मुक्त्वा। यदा यदवसरे । वीरशय्यां वीरशयनम् । अधिशयितः सुप्तः । स्याः भवः । तदा तत्समये । एषा वीरलक्ष्मीः असौ वीरश्रीः । अपहितरसा प्रकटितशृङ्गाररसा। उत्कण्ठोच्छसितहृदया उत्कण्ठया औत्सु