________________
सटीकम् ।
२३१
सद्य इति ।। मया यक्षेण । कालमेघैः कृष्णजलदैः । आरुद्ध आरुद्धा द्यौर्नभो यस्मिन्कर्मणि तत् । यः जलदसमयः । पथि मार्गे । श्राम्यतां खिद्यमानानाम् । प्रोषितानां प्रवासिनाम् । वृन्दानि निकुरम्बानि । " स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् " इत्यमरः । जीवनार्थ प्राणधारणार्थम् । त्वरयति सम्भ्रमयति । ध्वान्तस्यैव अन्धकारस्यैव । प्रतिनिधिः प्रतिकृतिः । " प्रतिकृतिरच पुंसि प्रतिनिधिरुपमोपमानं स्यात्" इत्यमरः । सोऽपि तादृशोऽपि । जलदसमयः। अनेन मुनिना । आत्मशक्त्या निजसामर्थ्येन । सहसा शीघ्रेण । " अतर्किते तु सहसा "इत्यमरः । अहो आश्चर्यम् । व्यवधि अच्छेदि । "विपूर्वस्य वधू हिंसायां" धातोर्लिङ् ॥ १५ ॥ सोऽयं योगी प्रकटमहिमा लक्ष्यते दुर्विभेदो
1
विद्यासिद्धो ध्रुवमभिमना यन्ममाप्यात्तनाशा । कर्त्तुं शक्ता नवघनघटा या मनांस्यध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥१६॥३९॥३६॥ स इति ॥ या अध्वगानां पथिकानाम् । मनांसि चित्तानि । मन्दस्निग्धैः : मन्द्राश्व ते स्निग्धाश्च तैः । खञ्जकुब्जादिवत् अन्यतरप्राधान्येन विशेषणमित्यादिना कर्मधारयः । ध्वनिभिः शब्दैः । अबलावेणिमोक्षोत्सुकानि अबलानां स्त्रीणां वेणयः तासां मोक्षे मोक्ष
मोचन इत्यर्थः । उत्सुकानि कर्तुं विधातुम् । शक्ता समर्था । मम मत्सम्बन्धिनी । नवघनघटा प्रत्यग्रमेघमाला । यत् यस्मात्कारणात् । आत्तनाशा प्राप्तविलयाभूत् । तस्मात् । सोऽयं योगी स एष मुनिः । प्रकटमहिमा प्रथितप्रभावः । दुर्विभेदः अभेद्यः । विद्यासिद्ध: विद्यया सिध्यति स्म तथोक्तः । अभिमानाः कचिदत्यासक्तचेताः । ध्रुवं निश्चलम् । लक्ष्यते दृश्यते ॥ १६ ॥ इत्याध्यायन्पुनरपि मुनिं सोभणीद्युद्धशौण्डो
वीरश्रीस्वामिह वनतरौ मन्मथाक्लेशमुक्ता ।