________________
२३०
पार्धाभ्युदयकाव्यं धे ब्रवीमि । केवलं जीवहिंसैव न शूरत्वमिति भावः । मां यक्षम् । भर्तुः राजराजस्य । अम्बुवाहम् अम्बु वहतीत्यंबुवाहस्तम् अम्बुवाहनामानम्।भुजिष्यं भृत्यम्।"नियोज्यकिङ्किरप्रेष्यभुजिष्यपरिचारकाः" इत्यमरः । प्रियं हितम्। मित्रं सखायम् । विद्धि जानीहि । अम्बुवाहाह्वयो धनदानुचरोऽहम् । तवापि प्रियमित्रमिति निश्चिन्विति भावः ॥ १३॥
तन्मा भैषीर्विहतगरिमा हस्तमुत्क्षिप्य पादा__ वाश्लिष्य त्वं मम यदि च ते जीवनेस्त्युत्सुकत्वम् । किञ्चित्प्रीत्यै प्रिययुवतितो मान्यथा त्वं गृहीर्मा
तत्सन्देशैर्मनसि निहितैरागतं त्वत्समीपम् ॥ १४ ॥ तदिति ॥ तत् तस्माद्धेतोः । मा भैषीः मा बिभीहि । ते तव। . जीवने जीविते । उत्सुकत्वं तत्परत्वम् । यदि चास्ति विद्यते चेत्तहि । त्वं भवान् । विहतगरिमा रहितगुरुस्वभावः सन् । “वर्णदृढादिभ्यः ” इत्यादिना इमन्त्यः । “प्रियस्थिर-" इत्यादिना गुरोर्गरादेशः । हस्तं पाणिम् । उत्क्षिप्य उद्धृत्य । मम मे चरणौ । आश्लिष्य आलिङ्गय । प्रिययुवतितः प्राणकान्तायाः सकाशात् । किञ्चित् ईषत् । प्रीत्यै प्रेम्णे । मनसि चित्ते । निहितैः स्थापितैः । तत्सन्देशैः युवतिवाचिकैः । त्वत्समीपं भवन्निकटं प्रति । आगतम् आगच्छति स्म आगतस्तम् । मां यक्षम् । त्वं भवान् । अन्यथा अपरप्रकारेण । मा गृहीः मा गृहाण । तस्याः सन्देशहरत्वात् न विरोधीति विभावयेत्यर्थः ॥ १४॥ सद्यः क्लुप्तो जलदसमयो यो मया कालमेघै
रारुद्धधु व्यवधि सहसा सोप्यनेनात्मशक्त्या । ध्वान्तस्यैव प्रतिनिधिरहो योषितां जीवनार्थ
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् ॥ १५ ॥