________________
' सटीकम् ।
२२९ अस्युत्खातः पटुतरगिरं प्रोज्झ्यवाचंयमित्वं - वक्तुं धीरस्तनितवचनो मानिनी प्रक्रमेथाः ॥१२॥३८॥३५॥
यदीति ॥ अतिप्रौढमानोद्धरस्य अतिचतुरेण मानेन प्रवृद्धस्य । ते भवतः । एतत् इदं वचः । यदि चेत् । अध्यवसितं निश्चितं स्यात् ततः तस्मात् । निकामं यथेष्टम् । यो कामः योधनाय योद्धं कामयत इति तथोक्तः । ध्यानाभ्यासं ध्यानपरिचयम् । शिथिलय शमनं कुरु । वाचंयमित्वं मौनित्वम् । “ वाचंयमो व्रती” इति खजन्तो निपातः । प्रोज्झ्य व्युत्सृज्य । अस्युत्खातः उत्खन्यते स्म उत्खातः उद्गीर्णः उत्खातोऽसिर्यस्यासावस्युत्खातः । विकल्पितः पूर्वनिपातः । धीरस्तनितवचनः धीरं स्तनितमेव वचनं यस्य स तथोक्तः सन् । मानिनी मानोऽस्यास्तीति मानिनी तां गर्वशालिनीम् । पटुतरगिरम् अतिपटुवाचम् । वक्तुं भाषितुम् । प्रक्रमेथाः उपक्रमख । " प्रोपाभ्यां समर्थाभ्याम् ” इति तङ् ॥ १२॥
भीते शस्त्रं यदि भटमते वावहीम्यस्त्रशून्ये ___ स्त्रींमन्ये वा चरणपतिते क्षीणके वा स कश्चित् । पादस्पृष्टया शपथयति वा जातु हिंसां भुजिष्यं __ भर्तुमित्रं प्रियमभिदधे विद्धि मामम्बुवाहम् ॥ १३ ॥
भीत इति ॥ भटमते भटश्रेष्ठे । भीते बिभेति स्म भीतः तस्मिन् भयमाप्ते । अस्त्रशून्ये शस्त्रहीने । “ आयुधं तु प्रहरणं शस्त्रमस्त्रम् " इत्यमरः । स्त्रींमन्ये स्त्रियमात्मानं मन्यते तथोक्तस्तस्मिन् । वा अथवा । चरणपतिते पादयोः पतिते । क्षीणके क्षीणकान्तौ। वा अथवा । पादस्पृष्ट्या पादस्पर्शेन। शपथयति प्रतिज्ञां कुर्वति। स कश्चित् कश्चिदहम् । जातु कदाचित् । दैन्यं करोतीत्यर्थः । वा अथवा । “ कदाचिज्जातु" इत्यमरः । यदि चेत् शस्त्रम् अखं वावहीमि भृशं वहामीति तथोक्तः श्लुगन्तः । तर्हि । हिंसां प्राणिहिंसादोषम् । अभिद