________________
२२८
पाश्र्वाभ्युदयकाव्यं हाऽपि " इत्यमरः । क्षतान्तां शान्तस्वभावाम् । “ अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽन्तरेऽन्तिके” इति वैजयन्ती । कुं भुवम् । "क्ष्मा धरित्री क्षितिश्च कुः” इति धनञ्जयः । मालतीनां जातीनाम्। "सुमना मालती जातिः" इत्यमरः । अभिनवैः प्रत्यौः । प्रत्यग्रोड भिनवो नव्यः” इत्यमरः । जालकैः मुकुलैः । “ क्षारको जालक 'क्लीबे कलिका कोरकः पुमान् " इत्यमरः । समं साकम् । प्रत्याश्वस्तां स्वशिशिरानिलसम्पत्पुनरुज्जीविताम् । श्वसेः कर्तरि क्तः । ननु निश्चयेन।आधत्तेधरति। कुर्यात्किं नो इति वा पाठः। किं न करोति ।। मत्प्रातीयं समरशिरसि प्राप्य दृष्टावधानः
क्षीणायुस्त्वं कुरु सुरवधू काश्चिदापूर्णकामाम् । द्यामारोहन्सहजमणिभाभूषितोम्भोदयाने
विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे ॥ ११ ॥ __ मत्प्रातीप्यमिति ॥ समरशिरसि सामाग्रे । मत्प्रातीप्यं मम प्रातिकूल्यम् । प्राप्य लब्ध्वा । दृष्ट्वावधान: आलोकितसाहसः । " अवधानं तु साहसम्” इति धनञ्जयः। त्वं क्षीणायुः क्षीणमायुयस्य स मृतः सन्नित्यर्थः। विद्युदेव गर्भोन्तःस्थो यस्य तस्मिन्नन्तीनविद्युतीत्यर्थः । “गर्भोपवरकेऽन्तःस्थे नौकुक्षिस्थाभकोत्तमे” इति शब्दार्णवे । अम्भोदयाने जलवाहने । द्यां दिवम् " घोदिवौ । स्त्रियामभ्रम्” इत्यमरः । आरोहन उद्गच्छन् । सहजमणिभाभूषितः सहजमणीनां भाभिः कान्तिभिः भूषितो मण्डितः सन् । त्वत्सनाथे त्वया सहिते “ सानाढप्रभमित्याहुः सहिते चित्ततापिनि ” इति शब्दार्णवे । गवाक्षे वातायने । स्तिमितनयनां कोसाविति विस्मितनेत्राम् । काञ्चित् सुरवधूम् । काञ्चन देवस्त्रियम् । आपूर्णकामां सम्पूर्णाभिलाषाम् । कुरु विधेहि । वृणीष्वेत्यर्थः ॥ ११ ॥ यद्येतत्तेऽध्यवसितमतिप्रौढमानोद्धरस्य
ध्यानाभ्यासं शिथिलय ततो यो कामो निकामम् ।