________________
सटीकम् । शंसन्तीदं ननु नवधनाधर्मतप्तक्षतां क्षमा
प्रोत्थाप्यैनां खजलकणिकाशीतलेनानिलेन ॥ ९॥ लक्ष्मीमिति ॥ स्ववपुषि स्वशरीरे । सतीं विद्यमानां साध्वीं वा । क्षीणां कृशाम् । तां लक्ष्मी श्रियम् । उद्यमाख्येन उद्यम एव आख्या यस्य । तेन प्रयत्नाख्येन । दोषा भुजेन । “ भुजबाहू प्रवेष्टो दोः" इत्यमरः । प्रबोध्य । युधि युद्धे । “समित्याजिसमिद्युधः" इत्यमरः। अलं समर्थः । भव तथाहि । सतां सत्पुरुषाणाम् । आश्रितानुग्रहः आश्रितजनरक्षणम् । अर्थः प्रयोजनम् । स्यादिति शेषः । “ अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु ” इत्यमरः । नवधनाः नवीनमेघाः। धर्मतप्तक्षतां धर्मेण तप्ता सा चासौ क्षता च ताम् । एनां क्ष्मां तां भूमिम् । “क्ष्मावनिर्मेदिनी मही" इत्यमरः । स्वजलकणिकाशीतलेन स्वजलबिन्दुशीतलेन । अनिलेन वायुना। प्रोत्थाप्य आह्नाद्य । इदं मदुक्तं कार्यम्। ननु स्फुटम्। शंसन्ति सूचयन्ति।। कीर्ति च स्वां कुरु कुसुमितां स्वोद्यमाम्बुप्रसेकैः
सदल्ली वा प्रधनविषयैरुन्नतानां क्रमोऽयम् । कुर्यात्किन्नो नवजलमुचां कुं क्षतान्तामनेहा
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥ १०॥ कीर्तिमिति ॥ प्रधनविषयैः सङ्ग्रामविषयैः । “ युद्धमायोधन जन्यं प्रधनं प्रविदारणम्" इत्यमरः । खोद्यमाम्बुप्रसेकैः स्वप्रयत्नजलसेचनैः । खां निजाम् । कीर्ति यशः । सद्वल्ली वा सल्लतामिव । कुसुमितां कुसुमानि सजातानि अस्यामिति कुसुमिता ताम् । “सखातं तारकादिभ्यः" इतीतत्यः । कुरु विधेहि । अयम् एषः । उन्नतानां महताम् । क्रमः परिपाटी । स्यादिति शेषः । नवजलमुचां नूतननीरदानाम् । अनेहा कालः । “कालो दिष्टोप्यने.