________________
२२६
पार्श्वाभ्युदयकाव्यं
क्ष्म्या : जयश्रियः । अभियाने अभिगमने सति । मृतिः मरणम् किम् । मरणं सम्भवतीत्यर्थः । वीरंमन्ये वीरमात्मानं मन्यते तस्मिन् त्वयि मेघे । मयि यक्षे तथा । अन्यत्र वा पुरुषान्तरे वा । कथञ्चित् कृच्छ्रेण । स्वप्नलब्धे स्वप्नप्राप्ते । प्रणयिनि प्रेमवति । जने लोके । अस्याः वीरलक्ष्म्याः । प्रेमभङ्गः प्रीतिभञ्जनम् । मा भूत् । " माङि लुङ् ” इति माङ्योगे लुङ् ॥ ७ ॥
निस्सङ्गत्वं नहि भुवि भयस्याङ्गमङ्गाङ्गसङ्गात् किं वा जीवन्मतक भवतोऽप्यस्ति भीरङ्गनानाम् । कृत्वा युद्धे विदधति मतिं नन्विमे योधमुख्याः
सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ ८ ॥३७॥३४॥
निस्सङ्ग इति ॥ जीवन्मन्यत इति जीवन्मत: अज्ञातो जीवन्मतो जीवन्मतकः तत्सम्बोधनं हे अस्पष्टचैतन्य । " कुत्सिताल्पाज्ञाते " इति कप्प्रत्ययः। त्वं भवान्। निस्सङ्गः संसर्गरहितः । भुवि भूमौ । भयस्य भीतेः । अङ्गम् अवयवः । नहि न भवसि । अङ्गाङ्गसङ्गात् परस्पराङ्गसंसर्गात् । भी भीतिः । अङ्गनानां स्त्रीणाम् । अस्ति विद्यते । भवतोऽपि तवाऽपि । अस्ति किंवा विद्यते किमु । यद्वत्स्त्रीणां सङ्गभीतिर्भवति तद्वत । इमे प्रत्यक्षभूताः । योधमुख्याः भटाप्रण्यः । भटा योधाश्च योद्धारः " इत्यमरः । युद्धे आयोधने । मतं बुद्धिम् । कृत्वा विधाय । सद्यः तदैव । कण्ठच्युतभुजलताग्रन्थि कण्ठायुतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तथोक्तम् । गाढोपगूढं गाढालिङ्गनम् । “ नपुंसके भावे क्तः । " ननु निश्चयेन विदधति कुर्वन्ति ॥ ८ ॥
८८
लक्ष्मीं क्षीणां स्ववपुषि सतीमुद्यमाख्येन दोषा प्रोत्थाप्यालं भव युधि सतामाश्रितानुग्रहोर्थः ।