________________
सटीकम् ।
२२५ या ते बुद्धिर्मद्रुपचरिताद्विभ्यती लुप्तसज्ञा
मूकावस्थां त्वयि विदधती रुन्धती सत्त्ववृत्तिम् ।। सावष्टम्भं भव भटतरो वार्धयुद्धे स्थिरः स
नन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ॥ ६॥ येति॥ ते तव । या बुद्धिः यज्ज्ञानम् । मदुपचरितात् ममेव चरणात् । कर्तरि क्तः । बिभ्यती भयमाप्नुवन्ती । लुप्तसञ्ज्ञा नष्टचैतन्या । “सञ्ज्ञा स्याञ्चेतना नाम हस्ताद्यैश्चार्थसूचने” त्यमरः । त्वयि भवति । मूकावस्थाम् अवाग्दशाम् । “ अवाचि मूकः” इत्यमरः । विदधती विदधातीति तथोक्ता । शतृत्यः । “नृदुक्” इति ङी । सत्त्ववृत्तिं बलवद्वर्त्तनम् । रुन्धती आवारयन्ती । स्यादिति शेषः । एनां बुद्धिम्। स्तनितविमुखः गर्जितपराङ्मुखःसन् भयादकूजन्निति ध्वन्यते । याममात्रं प्रहरमात्रम् । “ द्वौ यामप्रहरौ समौ " इत्यमरः । सहस्व क्षमस्व । प्रार्थनायां लोट् । याममात्रादेव युद्धपूतिर्भविष्यतीति भावः । अर्द्धयुद्धे वा अर्द्धसङ्ग्रामे वा । स्थिरः सन् दृढो भवन् । सावष्टम्भम् अवष्टम्भेन सहवर्तनं यस्मिन्कर्मणि तत् । अन्वास्य स्थित्वा । भटतरः प्रकृष्टभटः । भव रणभीरुर्माभूरित्यर्थः ॥ ६ ॥ मा भूभीतिस्तव सुरभटत्रासिगोंर्जितेऽसि
प्राप्ते योद्धं मयि किमभियाने मृतिवीरलक्ष्म्याः । वीरंमन्ये त्वयि मयि तथाऽन्यत्र वा प्रेमभङ्गो
मा भूदस्याः प्रणयिनि जने खप्नलब्धे कथञ्चित् ॥ ७॥ मा भूदिति ॥ सुरभटत्रासिगोजिते देवभटानां भीतिकरगर्जनेन ऊजिते बलिष्ठे मयि । योद्धं योधनाय । असिप्राप्ते प्राप्तोऽसिः येन सोऽसिप्राप्तस्तस्मिन् । अत्रापि वा पूर्वनिपातः । खङ्गं बिभ्रति सति । तवते।भीतिः भयम् । मा भूत् मा स्म जनि । वीरल