________________
२३८
पार्धाभ्युदयकाव्यं दूरागाढप्रणयदिवसो मन्मथेनातिभूमि
नीतो बिभ्यत्त्वदभिसरणादुत्सुकः स्त्रीजनस्त्वाम् । उष्णोच्छासं समधिकतरोच्छासिना दूरवर्ती
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥२६॥४२॥३९॥ दूरेति ॥ दूरागाढप्रणयदिवसः दूरागाढो दृढः प्रणयस्य विश्वासस्य दिवसो यस्य तथोक्तः । मन्मथेन मदनेन। अतिभूमि विपत्तिम् । नीतः प्रापितः । बिभ्यत् त्वदभिसरणात् तवाभिगमनात् । उत्सुकः लालसः । दूरवर्ती दूरस्थः न वागन्तुं शक्यत इत्यर्थः। वैरिणा विरोधिना । विधिना दैवेन । “ विधिविधाने दैवेपि " इत्यमरः । रुद्धमार्गः प्रतिबद्धवा । स्त्रीजनः अबलालोकः । समधिकतरोच्छ्रासिना दीर्घनिश्वासवता। ताच्छीलिको णीम्। उष्णोच्छासं तीव्रविरहश्वासम् । “ तिग्मं तीक्ष्णं खरं तीव्र चण्डमुष्णवशस्मृतिः” इति हलायुधः । त्वां भवन्तम् । तैः सङ्कल्पैः स्वसंवेद्यैर्मनोरथैः । एकीभवतीत्यर्थः ॥ २६ ॥ सोऽयं त्वत्तः प्रणयकणिकामप्यलब्ध्वा विलक्षो
दूरात्सेवां तव वितनुते पश्य साधो वधूनाम्। शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्
कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७ ॥ स इति॥ यः सखीनां वयस्यानाम् । पुरस्तादने । आननस्पर्शलो. भात् त्वन्मुखसम्पर्कलोभात् यदपि । शब्दाख्येयं शब्देन रवेणाख्येयम् उच्चैर्वाच्यमपि । यत्तद्वचनमपीति शेषः । ते तव । कर्णे श्रोत्रे। कथयितुं वक्तुम् । लोलः अलसः ।अभूत् किल अभवत् खलु । "लो लुपे लोलुभो लोलो लम्पटो चालसेऽपि च" इति यादवः । सोऽयम् वधूनां स्त्रीणाम् । सार्थः समूहः । “ सङ्घसाौँ तु जन्तुभिः" इत्य