________________
सटीकम् ।
२३९ मरः । त्वत्तः त्वत्सकाशात् । प्रणयकणिकामपि प्रेमलेशमपि । अलब्ध्वा अनवाप्य । विलक्षः विस्मयोपेतः । “ विलक्षो विस्मयान्वितः" इत्यमरः । तव भवतः । सेवां सेवनम् । दूरात् दविष्ठात् । वितनुते कुरुते । पश्य प्रेक्षस्व ॥ २७ ॥
योऽसौ स्त्रीणां प्रणयमधुरो भावगम्योऽधिकारः - कामाभिख्यां दधदविरलं लोकरूढा प्रसिद्धिः। सोतिक्रांतः श्रवणविषयं लोचनाभ्यामदृष्ट
स्त्वामुत्कंठाविरचितपदं मन्मुखेनेदमाह ॥२८॥४३॥ ४०॥ य इति ॥ योऽसौ । स्त्रीणां वनितानाम् । प्रणयमधुरः प्रणयेन प्रेम्णा मधुरः मनोहरः । कामाभिख्यां मन्मथाभिधानम् । अविरतं सन्ततम् । “सततानारताश्रान्तसन्तताविरतानिशम्" इत्यमरः। दधत् धरत् । भावगम्यः चित्तज्ञेयः । अधिकारः नियोगः । लोकरूढा लोकिकी प्रसिद्धिः। प्रथा स्त्रीपुंसयोर्भावविशेषस्यैव कामसझेति लोकरूढिरित्यर्थः । श्रवणविषयं श्रोत्रगोचरम् । अतिक्रान्तः अतीतः । लोचनाभ्यां नयनाभ्याम् । अदृष्टः अविलोकितः । अतिदूरत्वाच्छ्रोतुं विलोकितुं वा अशक्य इत्यर्थः । सः अधिकारः । त्वाम् । उत्कण्ठाविरचितपदम् उत्कण्ठाविरचितानि पदानि सुप्तिङन्तशब्दानि वाक्यानि वा यस्य तथोक्तम् । “ पदं शब्दे च वाक्ये च" इति विश्वः । इदं वक्ष्यमाणं योगिनीत्यादिकम् । मन्मुखेन मम मुखेन । आह ब्रवीति । स एव मब्यवधानेन ब्रूत इत्यर्थः ॥ २८ ॥ योगिन्योगप्रणिहितमनाः किंतरां ध्येयशून्यं
ध्यायस्येव स्मर ननु धियाध्यक्षवेद्यं मतं नः। श्यामाखंगं चकितहरिणीप्रेक्षिते दृष्टिपातं
वक्रच्छायां शशिनि शिखिनं बर्हमारेषु केशान् ॥ २९ ॥