________________
२४०
पार्थाभ्युदयकाव्यं ... योगिन्निति॥ योगिन् भो मुने । योगप्रणिहितमनाः ध्यानैकतानमनाः सन् । एवम् एवंविधम् । ध्येयशून्यं ध्यानविषयशून्यम् । विज्ञानाद्वैतमित्यर्थः । किंतराम् ईषदसमाप्तं किं किंतराम् । “अव्ययैत्किंतिङः” इति तिङाम् । तस्वन्नित्यादिनाऽव्ययम् । ध्यायसि स्मरसि । संदृशवस्तुदर्शनमाह । श्यामास्विति । श्यामासु प्रियङ्गुलतासु ।“ श्यामामहिलयाह्वया । लतागोविन्दिनीगुन्द्राप्रियङ्गुः फलिनी फली" इत्यमरः । अङ्गं शरीरम् । तथा च । चकितहरिणीप्रेक्षिते भीतैणीप्रेक्षणे । दृष्टिपातं नयनव्यापारम् । “ पातस्तु परिनेतुना " इति भास्करः । शशिनि चन्द्रे । वक्रच्छायां मुखकान्तिम् । तथा शिखिनां बर्हिमारेषु पिच्छसमूहेषु । केशान् कचान्। धिया बुद्ध्या। ननु निश्चयेन । अध्यक्षवेद्यं प्रत्यक्षविषयम् । नः अस्माकम् । मतं चावाकमतमित्यर्थः । स्मर चिन्तय । सौकुमार्यादिकं स्त्रीविषयं ध्यायेत्यर्थः।। - इतः पादवेष्टितानि- पश्यामुष्मिन्नवकिसलये पाणिशोभा नखानां । ' छायामस्मिन् कुरबकवने सप्रसूने स्मितानाम् ।
लीलामुद्यत्कुसुमितलतामंजरीष्वस्मदीया . मुत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् ॥ ३० ॥ । पश्यति॥ अमुस्मिन् एतस्मिन् । कुरबकवने । नवकिसलये प्रत्यप्रपल्लवे । “ पल्लवोऽस्त्री किसलयम्" इत्यमरः । पाणिशोभां हस्तकान्तिम् । अस्मिन् सप्रसूने । एतस्मिन् पुष्पसहिते । “ प्रसूनं कुसुमं सुमम्" इत्यमरः । कुरबकवने करण्टकवने । नखानां कररुहाणाम् । छायां द्युतिम् । उद्यत्कुसुमितलतामञ्जरीषु उद्गच्छत्पुष्पितवल्लरीषु । " वल्लरिमंजरी स्त्रियौ” इत्यमरः । अस्मदीयाम् अस्माकं सम्बद्धाम्।
१ ध्यानस्य स्मृतिरूपत्वेन सदृशादृष्टचिंतादयास्स्मृतिबीजस्य बोधकाः इति येन तज्जनकसामग्रीमाह ।