________________
सटीकम् ।
२४१ स्मितानाम् ईषद्ध सितानाम् । लीलां विलासम् । प्रतनुषु खल्पासु । नदी वीचिषु नदीतरङ्गेषु । भ्रूविलासान् भ्रूभङ्गविधीन् । अत्र वीचीनां विशेषणोपादाने अयुक्तगुणग्रहणदोषः । भ्रूसाम्यनिर्वाहाय महत्वदोपनिवारणार्थत्वात्तस्य । तदुक्तं रसाकरे । “ ध्वन्युत्पादे च सोत्कर्षे भावोक्ता दोषवारणाः । विशेषणाद्विशेष्यस्य नास्य युक्तगुणग्रह: " इति । भ्रूपताकानीति पाठे अवः पताका इवेत्युपमितसमासः । उत्पश्यामि तर्कयामि । पश्य त्वमपि प्रेक्ष स्वेत्यर्थः ॥ ३० ॥
सादृश्यं नः स्फुटमिति यथा दृश्यते सर्वगामी
ध्येयं साक्षात्सुखफलमिदं योगिनां कामदायि । मिथ्याध्यातेर्मुनिषु विधये हे तपोलक्ष्मि तद्व
तैकस्थं क्वचिदपि न ते चंडि सादृश्यमस्ति ॥ ३१॥४४॥४१॥
1
सादृश्यमिति ।। चण्डि कोपने । गौरादित्वात् ङी । " चण्डीप्रणयिनी तथा” इति धनञ्जयः । " चण्डी कात्यायनी हिंस्रा कोपना स्त्रीषु सम्मता” इति विश्वः । उपमानकथनमात्रेण न न कोपितव्यमित्यर्थः । हे तपोलक्ष्मि तप एव लक्ष्मीस्तत्सम्बुद्धिः । योगिनां मुनीनाम् कामदायि अभीष्टप्रदम् । साक्षात्सुखफलं प्रत्यक्षसुखफलम् । इदम् एतत् । ध्येयं ध्यानार्हम् । सर्वगामि सर्वजीवगमनशीलम् । इति एवम् । नः अस्माकम् । सादृश्यम् एतद्दाष्टन्तिकत्वम् । स्फुटं व्यक्तम् । यथा यद्वत् । दृश्यते तद्वत् तदिव । मुमुक्षुमिध्याध्यातेः अतत्त्वध्यानस्य । विधये विधानाय । " विधिविधाने दैवे च "" इत्यमरः । क्वचिदपि वस्तुनि । एकस्थम् एकत्रस्थितम् । ते तव । युष्मदस्मदोरलिङ्गत्वात्रिलिङ्गेषु समानत्वम् । सादृश्यं साम्यम् । नास्ति हन्त । “ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः " इत्यमरः । अतो न विवृणोमीत्यर्थः । एतावद्ध्यानविघ्नकरणेऽपि तद्ध्यानस्य भङ्गो नास्तीति ध्वन्यन्तरेणाहेति भावः ॥ ३१ ॥
१६