________________
पार्श्वाभ्युदयकाव्यं
२४२
हा धिग्मूढं यदयमृषिपः स्वामसाध्वीमजानन् त्वय्यासक्तिं मुहुरुपगतोऽस्मास्वनादर्यभूच्च । चेतोमय्यां यदनुकमितां ध्यायति प्रेयसीं वा त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायां ॥ ३२ ॥
66
हेति ॥ यत् यस्मात् । अयम् एषः । ऋषिपः मुनीन्द्रः । ऋषितिर्मुनिर्मोक्षुः " इति धनञ्जयः । त्वां भवन्तम् । असाध्वीम् असतीम् । अजानन् अनवबुध्यमानः । त्वयि भवत्याम् । आसक्तिंकाङ्ग्राम् । मुहुः पुनःपुनः । उपगतः उपयातः सन् । अस्मासु इष्टसम्बन्धिषु । अनादरी अप्रेमवान् । अभूत् आसीत् । च पुनः । यत् यस्मात् । प्रणयकुपितां प्रणयकोपिनीम् । त्वां भवन्तीम् । तपोलक्ष्मीं प्रेयसीं वा । प्रकृष्टप्रियामिव । अनुकमितां अनुवाञ्छितां सन् । " ण्वुतृच्” इति तृत्यान्तः । चेतोमय्यां चेतोविकारायाम् । शिलायां शिलापट्टे । धातुरागैः धातव एव वाय्वादय एव रागा रञ्जनद्रव्याणि । " धातुर्वातादिशब्दादिगैरिकादित्वगादिषु " इति यादवः । " चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौं च रागं स्यादरुणे रञ्जने पुमान् ” इति शब्दार्णवे । तैः । आलिख्य निर्माय | ध्यायति चिन्तयति । तस्माद्धेतोः । मूडिं मौढ्यम् । हा धिक् । “ हा विषादशुगर्तिषु " कु धिग्भर्त्सननिन्दयोः" इत्युभयत्राप्यमरः । चेतःशिलायां कुपितावस्थायुक्तां तपोलक्ष्मीं प्रकृतिं प्राणधातुभिर्विरच्य ध्यायतीति भावः ॥ ३२ ॥
इतः कतिचिद्भिः पद्यैर्विरहपरवशायाः स्त्रियो दैन्यं प्रादुर्भावयतिभोभो साधो मम कुरु दयां देहि दृष्टिं प्रसीद
प्रायस्साधुर्भवति करुणाद्रींकृतस्वांतवृत्तिः । योगं तावच्छिथिलय मनाक् प्रार्थनाचाटुकारै
रात्मानं ते चरणपतितं यावदिच्छामि कर्तुं ॥ ३३ ॥