________________
सटीकम् ।
२४३ भोभो इति ॥ भोमो सांधों भोभो मुनें। "भृशाभीक्ष्ण्या" इत्यादिनाद्विः। मम मे । दयां कारुण्यम् । कुरु विधेहि । दृष्टिं दर्शनम् । देहि देयाः। प्रसीद प्रसन्नो भव । साधुः मुनिः सज्जनो वा । प्रायः प्राचुर्येण । करुणाीकृतस्वान्तवृत्तिः प्रागनाः इदानीमाः क्रियते स्म आर्द्राकृता करुणया कृपया आीकृता मृदुभूता स्वान्तस्य चित्तस्य वृत्तिर्वर्तनं यस्य सः। कारुण्योपशान्तचित्तवृत्तिरित्यर्थः। भवति यावत् यत्पर्यन्तम् । प्रार्थनाचाटुकारैः प्रियवचनकरणैः । आत्मानं मामबलाम् । ते मुनेः पूर्वबन्धोः । चरणपतितं पादयोर्विनतम् । कर्तु करणाय। इच्छामि वाञ्छामि । तावत् तावत्पर्यन्तम् । मनाक् ईषत् । योग ध्यानम् । शिथिलय विश्लेषय ॥ ३३ ॥
त्वत्सादृश्यं मनसि गुणितं कामुकीनां मनोहत्
कामाबाधां लघयितुमथोद्रष्टुकामा विलिख्य । यावत्प्रीत्या किल बहुरसं नाथ पश्यामि कोष्णरञ्जस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे ॥ ३४ ॥
त्वदिति ॥ अथो अनन्तरे । नाथ भो प्रिय । यावत् यदवसरे। "यावत्तावच्च साकल्येऽवधौ मानेऽवधावरणे” इत्यमरः । बहुरसं बहवो रसाः शृङ्गारादयो यस्मिन् तत् । कामुकीनां कामिनीनाम् । "वृषस्यन्ती तु कामुकी'इत्यमरः । मनोहृत् मनोहरम्।मनसि चित्ते। गुणितम् अभ्यस्तम्।"अभ्यस्ते गुणिताहते"इत्यमरः। त्वत्सादृश्यं भवत्साम्यम् । द्रष्टुकामा आलोकितुकामा सती । कामबाधां कामपीडाम् । लघयितुं लघूकर्तुम् । विलिख्य लिखित्वा । प्रीत्या सन्तोषेण । पश्यामि प्रेक्ष्ये । तावत् तदवसरे । मुहुरुपचितैः पुनःपुनः प्रवृद्धैः । कोष्णैः ईषदुष्णैः । " कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति" इत्यमरः । अझैः अश्रुभिः । “ अस्रमश्रुणि शोणिते " इति विश्वः ।