Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 239
________________ सटीकम् । शंसन्तीदं ननु नवधनाधर्मतप्तक्षतां क्षमा प्रोत्थाप्यैनां खजलकणिकाशीतलेनानिलेन ॥ ९॥ लक्ष्मीमिति ॥ स्ववपुषि स्वशरीरे । सतीं विद्यमानां साध्वीं वा । क्षीणां कृशाम् । तां लक्ष्मी श्रियम् । उद्यमाख्येन उद्यम एव आख्या यस्य । तेन प्रयत्नाख्येन । दोषा भुजेन । “ भुजबाहू प्रवेष्टो दोः" इत्यमरः । प्रबोध्य । युधि युद्धे । “समित्याजिसमिद्युधः" इत्यमरः। अलं समर्थः । भव तथाहि । सतां सत्पुरुषाणाम् । आश्रितानुग्रहः आश्रितजनरक्षणम् । अर्थः प्रयोजनम् । स्यादिति शेषः । “ अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु ” इत्यमरः । नवधनाः नवीनमेघाः। धर्मतप्तक्षतां धर्मेण तप्ता सा चासौ क्षता च ताम् । एनां क्ष्मां तां भूमिम् । “क्ष्मावनिर्मेदिनी मही" इत्यमरः । स्वजलकणिकाशीतलेन स्वजलबिन्दुशीतलेन । अनिलेन वायुना। प्रोत्थाप्य आह्नाद्य । इदं मदुक्तं कार्यम्। ननु स्फुटम्। शंसन्ति सूचयन्ति।। कीर्ति च स्वां कुरु कुसुमितां स्वोद्यमाम्बुप्रसेकैः सदल्ली वा प्रधनविषयैरुन्नतानां क्रमोऽयम् । कुर्यात्किन्नो नवजलमुचां कुं क्षतान्तामनेहा प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥ १०॥ कीर्तिमिति ॥ प्रधनविषयैः सङ्ग्रामविषयैः । “ युद्धमायोधन जन्यं प्रधनं प्रविदारणम्" इत्यमरः । खोद्यमाम्बुप्रसेकैः स्वप्रयत्नजलसेचनैः । खां निजाम् । कीर्ति यशः । सद्वल्ली वा सल्लतामिव । कुसुमितां कुसुमानि सजातानि अस्यामिति कुसुमिता ताम् । “सखातं तारकादिभ्यः" इतीतत्यः । कुरु विधेहि । अयम् एषः । उन्नतानां महताम् । क्रमः परिपाटी । स्यादिति शेषः । नवजलमुचां नूतननीरदानाम् । अनेहा कालः । “कालो दिष्टोप्यने.

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292