Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 238
________________ २२६ पार्श्वाभ्युदयकाव्यं क्ष्म्या : जयश्रियः । अभियाने अभिगमने सति । मृतिः मरणम् किम् । मरणं सम्भवतीत्यर्थः । वीरंमन्ये वीरमात्मानं मन्यते तस्मिन् त्वयि मेघे । मयि यक्षे तथा । अन्यत्र वा पुरुषान्तरे वा । कथञ्चित् कृच्छ्रेण । स्वप्नलब्धे स्वप्नप्राप्ते । प्रणयिनि प्रेमवति । जने लोके । अस्याः वीरलक्ष्म्याः । प्रेमभङ्गः प्रीतिभञ्जनम् । मा भूत् । " माङि लुङ् ” इति माङ्योगे लुङ् ॥ ७ ॥ निस्सङ्गत्वं नहि भुवि भयस्याङ्गमङ्गाङ्गसङ्गात् किं वा जीवन्मतक भवतोऽप्यस्ति भीरङ्गनानाम् । कृत्वा युद्धे विदधति मतिं नन्विमे योधमुख्याः सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ ८ ॥३७॥३४॥ निस्सङ्ग इति ॥ जीवन्मन्यत इति जीवन्मत: अज्ञातो जीवन्मतो जीवन्मतकः तत्सम्बोधनं हे अस्पष्टचैतन्य । " कुत्सिताल्पाज्ञाते " इति कप्प्रत्ययः। त्वं भवान्। निस्सङ्गः संसर्गरहितः । भुवि भूमौ । भयस्य भीतेः । अङ्गम् अवयवः । नहि न भवसि । अङ्गाङ्गसङ्गात् परस्पराङ्गसंसर्गात् । भी भीतिः । अङ्गनानां स्त्रीणाम् । अस्ति विद्यते । भवतोऽपि तवाऽपि । अस्ति किंवा विद्यते किमु । यद्वत्स्त्रीणां सङ्गभीतिर्भवति तद्वत । इमे प्रत्यक्षभूताः । योधमुख्याः भटाप्रण्यः । भटा योधाश्च योद्धारः " इत्यमरः । युद्धे आयोधने । मतं बुद्धिम् । कृत्वा विधाय । सद्यः तदैव । कण्ठच्युतभुजलताग्रन्थि कण्ठायुतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तथोक्तम् । गाढोपगूढं गाढालिङ्गनम् । “ नपुंसके भावे क्तः । " ननु निश्चयेन विदधति कुर्वन्ति ॥ ८ ॥ ८८ लक्ष्मीं क्षीणां स्ववपुषि सतीमुद्यमाख्येन दोषा प्रोत्थाप्यालं भव युधि सतामाश्रितानुग्रहोर्थः ।

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292