Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 235
________________ सटीकम् । २२३ अहं मुक्ताजालादिविभूषणरहित इत्यभिप्राय इत्यर्थः । स्वान् निजान् । प्राणान् असून् । घटयितुं सम्बन्धयितुम् । नालं न शक्तः ॥ २ ॥ किं ते वैरिद्विरदनघटाकुम्भसम्भेदनेषु प्राप्तस्थेमा समरविजयी वीरलक्ष्म्याः करोऽयम् । नास्मत्खङ्गः श्रुतिपथमगाद्रक्तपानोत्सवानां सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥ ३ ॥ किमिति || वैरिद्विरदनघटाकुम्भसम्भेदनेषु वैरिगजानां समूहस्य कुम्भस्थलविदारणेषु । प्राप्तस्थेमा लब्धस्थिरभाव: । "वर्णदृढादिभ्यपण चाण् च" इति भावे इमन् । “प्रियस्थिर -" इत्यादिना स्थादेशः । समरविजयी सङ्कामविजयशीलः । " अस्त्रियां समरानीकरणा: " इत्यमरः । सम्भोगान्ते अनुभवनावसाने । मम यक्षस्य । हस्तसंवाहनानां करमर्दनानाम् । " संवाहनं मर्दनं स्यात् " इत्यमरः । समुचितः सुयोग्यः । वीरलक्ष्म्याः करः जयलक्ष्मीहस्तभूतः । अयमस्मत्खङ्गः एषोऽस्मत्करवालः । ते तव । श्रुतिपथोत्र रन्ध्रम् । नागात्किम् नायासीत्किम् । तन्महिमानं नाऽशृणोः किमिति प्रश्नः ॥ ३ ॥ अस्युद्गीर्णे मयि सुरभटास्तेऽपि विभ्यत्य सभ्यः कस्त्वं स्थातुं भण मम पुरः किं न जिह्रेषि भिक्षो । भावत्कोऽयं मदसिवितताखण्डनात्तत्पुरस्ता द्यास्यन्यूरुः सरसकदलीस्तंभगौरश्चलत्वम् ॥ ४ ॥३६॥३३॥ अस्युद्गीर्ण इति । मयि यक्षे । अस्युद्गीर्णे उद्गीर्णः निष्कोशीकृतः उद्गीर्णोऽसिर्यस्य येन सोऽस्युद्गीर्णस्तस्मिन् । “ प्रहरणात्सप्तमी " इति विकल्पितपूर्वनिपातः । अस्युद्गीर्णः उद्गीर्णा सिरित्यपि भवतीत्यर्थः । खड्ने मयि नीते सति । ते सुरभटा अपि प्रसिद्धाः देवयोधाश्च ।

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292