________________
सटीकम् ।
२२३
अहं मुक्ताजालादिविभूषणरहित इत्यभिप्राय इत्यर्थः । स्वान् निजान् । प्राणान् असून् । घटयितुं सम्बन्धयितुम् । नालं न शक्तः ॥ २ ॥ किं ते वैरिद्विरदनघटाकुम्भसम्भेदनेषु
प्राप्तस्थेमा समरविजयी वीरलक्ष्म्याः करोऽयम् । नास्मत्खङ्गः श्रुतिपथमगाद्रक्तपानोत्सवानां सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥ ३ ॥
किमिति || वैरिद्विरदनघटाकुम्भसम्भेदनेषु वैरिगजानां समूहस्य कुम्भस्थलविदारणेषु । प्राप्तस्थेमा लब्धस्थिरभाव: । "वर्णदृढादिभ्यपण चाण् च" इति भावे इमन् । “प्रियस्थिर -" इत्यादिना स्थादेशः । समरविजयी सङ्कामविजयशीलः । " अस्त्रियां समरानीकरणा: " इत्यमरः । सम्भोगान्ते अनुभवनावसाने । मम यक्षस्य । हस्तसंवाहनानां करमर्दनानाम् । " संवाहनं मर्दनं स्यात् " इत्यमरः । समुचितः सुयोग्यः । वीरलक्ष्म्याः करः जयलक्ष्मीहस्तभूतः । अयमस्मत्खङ्गः एषोऽस्मत्करवालः । ते तव । श्रुतिपथोत्र रन्ध्रम् । नागात्किम् नायासीत्किम् । तन्महिमानं नाऽशृणोः किमिति प्रश्नः ॥ ३ ॥
अस्युद्गीर्णे मयि सुरभटास्तेऽपि विभ्यत्य सभ्यः
कस्त्वं स्थातुं भण मम पुरः किं न जिह्रेषि भिक्षो । भावत्कोऽयं मदसिवितताखण्डनात्तत्पुरस्ता
द्यास्यन्यूरुः सरसकदलीस्तंभगौरश्चलत्वम् ॥ ४ ॥३६॥३३॥
अस्युद्गीर्ण इति । मयि यक्षे । अस्युद्गीर्णे उद्गीर्णः निष्कोशीकृतः उद्गीर्णोऽसिर्यस्य येन सोऽस्युद्गीर्णस्तस्मिन् । “ प्रहरणात्सप्तमी " इति विकल्पितपूर्वनिपातः । अस्युद्गीर्णः उद्गीर्णा सिरित्यपि भवतीत्यर्थः । खड्ने मयि नीते सति । ते सुरभटा अपि प्रसिद्धाः देवयोधाश्च ।