________________
२२२
पार्श्वभ्युदय काव्यं
66
""
प्रति । इदम् एतत् । प्रणयमधुरं प्रीतिसुभगं यथा तथा । संदिष्टं संदिश्यते स्म संदिष्टं भाषितम् । न केवलमहमेव ब्रवीमि कान्तयापि इदं संदिष्टमिति भावः । तत् कार्यम् । कर्तुं विधातुम् । त्वम् आत्मानम् । लघुनः शीघ्रात् । लघुक्षिप्रमरं द्रुतम् इत्यमरः । इति नपुंसकत्वात् पञ्चम्येकवचनरूपमिदम् । त्वरय सम्भ्रमय । मदीयैः मत्सम्बद्धैः । कररुहपदैः नखपदैः । " पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ” “ पदं व्यवसितत्राणस्थानलक्ष्माडिवस्तुषु” इत्युभयत्राप्यमरः । मुच्यमानः परिहीयमाणः युद्धे अव्यापन्न इत्यर्थः । अस्याः प्रियायाः । वामश्च मनोहरोपि सन् । “ वामो वक्रं मनोहरे " इति धनञ्जयः । तामपि प्राप्येत्यर्थः । एवम् उक्तत्या । किं किं न कुर्याः किंकिं कार्य न कुर्वीथाः । सर्वं कुर्या एवेति यावत् ॥ १ ॥
"
1
एतावज्जल्पमानेपि ध्यानैकतानं योगिनं प्रति पुना रटतिभभो भिक्षो मयि सहरुषि व प्रयास्यस्यवश्यं
त्वामुद्धेति प्रणिपतनकैः सारयिष्ये तदग्रम् । न प्राणान्स्वान्घटयितुमलं तावको निर्भयो वा मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ॥ २ ॥
भोभो इति ॥ भोभोः भिक्षो हे यते । " भृशाभीक्ष्ण्ये " इति द्विः । मयि यक्षे । सहरुषि रोषसहिते सति । " वान्यार्थे ” इति विकल्पेन सहस्य सभावः क्क कुत्र । प्रयास्यसि एष्यसि । त्वां भवन्तम् । उद्धेतिप्रणिपतनकैः उद्गतखड्गपातनैः । तदग्रं खङ्गाग्रम् । अवइयं निश्चयेन । सारयिष्ये यापयिष्यामि । चिरपरिचितं चिराभ्यस्तम् । मुक्ताजालं मौक्तिकभूषणम् । दैवगत्या दैववशेन । त्याजितः । त्यजधातोर्ण्यन्तात्कर्मणि क्तः । परिहारितः । तावकः तव सम्बन्धी । युष्मदस्मदे यञ् तवकादेशश्च । निर्णयो वा निश्चयो वा ।