________________
सटीकम् ।
२२१ वर्मितः सज्जः " इत्यमरः । आसन्ने समीपगते सति । स्वकुशलवाशिंसिनि सतीति शेषः । उपरिस्पन्दि उपरि ऊर्श्वभागे स्यन्दन्ते स्फुरतीत्युपरिस्पन्दि । तथा च निमित्तनिधाने । “ स्पन्दान्मूर्ध्नि च्छत्रलाभः" सातिपटुशुभं भूयिष्ठप्राप्तिः। दृशोरूर्ध्वमपाङ्गे हानिमादिशेत्” इति । मृगाक्ष्याः एणलोचनायाः । नयनं लोचनम् । वाममिति शेषः । “वामभागश्च नारीणां श्रेष्ठः पुंसश्च दक्षिणः । दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च” इति वामभागप्रशंसनात् । मीनक्षोभात् शफराघट्टनात् । चलकुवलयश्रीतुलां चलस्य कुवलयस्य श्रिया शोभया तुलां सादृश्यम् । एष्यति गमिष्यत्येव शते शङ्कयामि । तुलार्थो हि तुलोपमानाभ्यामित्यत्र सदृशपर्यायस्यैव तुलाशब्दस्य प्रतिषेधात् । असादृश्यवाचित्वात्तद्योगेऽपि तृतीयासमासः ॥ ५७ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचिते मेघदूतवेष्टितवेष्टिते पार्श्वभ्युदये तद्व्याख्यायां च सुबोधिकाख्यायां भगवत्कैवल्यवर्णनं
नाम तृतीयः सर्गः ॥ ३ ॥
अथ चतुर्थः सर्गः ४. इतः पादवेष्टितानिसंदिष्टं च प्रणयमधुरं कान्तया मे द्वितीयैः
प्राणैः प्राणा नवनववरः सन्निति त्वां प्रतीदम् । तत्कर्तुं स्वं त्वरय लघुनः किंकिमेवं न कुर्या
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः ॥ १॥ संदिष्टमिति ॥ मे मम । द्वितीयैः द्वयोः पूरणैः । प्राणैः असुभिः नियतलिङ्गत्वात्प्राणभूतयेत्यर्थः । कान्तया च प्रिययापि । प्राणाः असवः । प्राणा इति सर्वत्र पुंस्त्वं बहुत्वं प्राणभूत इत्यर्थः । नवनववरः अभिनवप्रियः । वीप्सायां द्विः । सन्निति तत्पुरुष इति । त्वां