________________
२२०
पार्धाभ्युदयकाव्यं भूय इति ॥ यत् यस्मात् पुरा पूर्वम् । दृष्टमात्रे आलोकितमात्रे । त्वयि भवति । अलकैश्चूर्णकुन्तलैः । रुद्धापाङ्गप्रसरं रुद्धोऽपाङ्गयोः प्रसरो विस्तारो यस्य सः तथोक्तम् । अञ्जनस्नेहशून्यम् अञ्जनस्य स्नेहः स्निग्धत्वम् । तेन शून्यं विकलम् । अपि च किञ्च । मधुनः वृष्यरसस्य । प्रत्यादेशात् प्रतिषेधात् । “प्रत्यादेशो निराकृतिः " इत्यमरः । विस्मृतभ्रूविलासं विस्मृतो भ्रुवोर्विलासो येन तथोक्तम् । स्निग्धं स्नेहयुतम् । चक्षुः नयनम् । निद्धती निक्षिपन्ती । सा सुदती शोभना दन्ता यस्याः सा सुदती। “वयसि दन्तस्य दत" इति दत्रादेशः । मदाज्ञाकृतः ममाज्ञां करोतीति मदाज्ञाकृत् तस्य सन्देशहरस्येत्यर्थः । ते तव । भूयः पुनः । प्रीत्यै सन्तोषाय । भवतु अस्तु इत्याशीः ॥५६॥ मत्प्रामाण्यादसुभिरसने निश्चितात्मा त्वमेनां
भोक्तुं याया धनदनगरी तत्प्रमाणाय सजे । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥५७॥३५॥३२॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचिते
मेघदूतवेष्टितवेष्टिते श्रीपाोऽभ्युदये ___ भगवत्कैवल्यवर्णनं नाम
तृतीयः सर्गः ॥३॥ मत्प्रमाण्यादिति ॥ मत्प्रमाण्यात् अहमेव प्रामाण्यं तस्मात् मद्वचनप्राधान्यादित्यर्थः । असुनिरसने प्राणनिराकृतौ । “ पुंसि भूभ्यसवः प्राणाः' । 'प्रत्याख्यानं निरसनम्" इत्युभयत्राप्यमरः। निश्चितात्मा निर्णीतस्वरूपः। त्वं भवान् । एनां प्रियाम् । भोक्तुम् अनुभवनाय । धनदनगरी अलकापुरीम् । यायाः गच्छेः । त्वयि भवति । तत्प्रमाणा तस्य वचनस्य निश्चयनिमित्तम् । सज्जे सन्नद्धे । “सन्नद्धो