________________
सटीकम् ।
२१९ ननु सुभगमानिनामेष स्वभावः यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राहतन्मे सत्यं सकलमुदितं निश्चिनु स्वार्थसिद्ध्यै
स्निग्धां वृत्तिं मनसि घटयन् येन माध्यानुविद्धम् । वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्भातरुक्तं मया यत्॥५५॥३४॥३१॥ तदिति ॥ भ्रातः भो सहोदर । यत् यस्मात् कारणात् । मया यक्षेण । उक्तं कथितम् । निखिलं सकलम् । अचिरात् क्षिप्रमेव । प्रत्यक्षं दृष्टिविषयम् । भविष्यतीति शेषः । येन कारणेन । सुभगंमन्यभावः सुभगमात्मानं मन्यभावः सुभगमात्मानं मन्यते इति सुभगंमन्यः । “ कर्तुस्खः" इति खत्यः ॥ “खित्यरु:-" इत्यादिना मम् । तस्य भावः तथोक्तः । सुन्दरमानित्वम् । साध्यानुस्यूतम् । मां यक्षम् । वाचालं बहुभाषिणम् । “वागालापौ” इत्यालत्यः । " स्याजल्पाकस्तु वाचालो वाचाटो बहुगवाक् ” इत्यमरः । न करोति खलु न विदधाति हि । वृथासौन्दर्याभिमानात्प्रलापिनं न करोतीत्यर्थः । तत्तस्माद्धेतोः स्वार्थसिद्धयै स्वार्थस्य दिव्यभोगानुभवस्य सिद्ध्यै साधनाय । मनसि चित्ते । स्निग्धां विश्वस्ताम् । वृत्तिं वर्तनाम् । घटयन् रचयन् । मे मम सकलमुदितं समस्तं वचनम् । “ उक्तं भाषितमुदितम् ” इत्यमरः । सत्यं तथ्यम् । निश्चिनु निश्चिनुयाः ।। ५५ ॥ भूयः प्रीत्यै भवतु सुदती सा मदाज्ञाकृतस्ते
स्निग्धं चक्षुस्त्वयि निदधती दृष्टमात्रे पुरा यत् । रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ॥ ५६ ॥