________________
२१८
पार्धाभ्युदयकाव्यं यते स्म तथोक्ता मन्मथावस्थास्पदा । सा दयिता । त्वामपि भवन्तमपि । नवजलमयं नवाम्बुरूपम् । आलं बाष्पम् । " असं आस्रश्च पुल्लिङ्गो क्लेशे च रुधिरेश्रुणि" इति वैजयन्ती । अवश्यम् सर्वदा । मोचयिष्यति मुश्चयिष्यति । मुचेः द्विकर्मकत्वम् । तथाहि । प्रायः प्रायेण । “ प्रायो भूम्नि" इत्यमरः । आर्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः । सर्वः सर्वजनोपि । करुणावृत्तिः करुणामयावृत्तिरन्तःकरणवर्तनं यस्य सः । भवति । अस्मिन्नवसरे सर्वथा त्वया शीघ्रमनन्तरदशापरिहाराय गन्तव्यमित्यभिप्रायः । सम्भोगो विप्रयोगश्चेति शृङ्गारो द्विधा । विप्रलम्भे स्त्रीणामवस्था दश । तदुक्तं शृङ्गारमअ-म्-" दृक्प्रीतिश्च मनस्सक्तिः सङ्कल्पो जागरस्तथा । अरतिर्लज्जात्यागो मोहो मूर्छा मृतिर्दश" इति । अत्र चित्रलेखनतदीक्षणाद्यभिप्रायेषु चक्षुःप्रीत्याद्यवस्थाभेदो बुद्धिमद्भिरवसेयः॥५३॥
नन्वीदृशी दशां प्राप्तेति कथं त्वया निर्णीतमित्याशयेनाहबन्धुप्रीति गुरुजन इवाहत्य कान्ताद्वितीये
जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मात् । संवासाच्च व्यतिकरमिमं तत्त्वतो वेद्मि तस्मा
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ॥ ५४ ॥ बन्धुप्रीतिमिति ॥ गुरुजन इव मातृपित्रादाविव । कान्ताद्वितीये द्वितयकान्ताजने । अस्य स्त्रीजने इत्यर्थः । बन्धुप्रीतिं बान्धवानुरागम् । जाने जानामि । अस्मात् कारणात् । संवासाच्च संवसनं संवासस्तस्मादपि। इमं व्यतिकरं व्यसनमिदम् । “व्यतिकरः समाख्यातो व्यसनव्यतिषङ्गयोः” इति विश्वः । तत्त्वतः परमार्थतः । वेझिं जाने । तस्मात् कारणात् । अहम् । प्रथमविरहे आद्यविप्रलम्भे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीम् । इत्थंभूतां पूर्वोक्तापन्नावस्थाम् । तर्कयामि निश्चिनोमि ॥ ५४॥