________________
सटीकम् ।
२१७ शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रं
त्वामप्यन्तर्विचलितधृतिं तां दशां नेतुमर्हेत् ॥५२॥ सेति ॥ अबला न विद्यते बलं यस्याः सा दुर्बला । वीताहारा त्यक्तजेमना । “जेमनं लेह आहारः ” इत्यमरः । संन्यस्ताभरणं त्यक्ताभरणम् । पेलवं कृशम् । “ पेलवं विरलं तनु" इत्यमरः । पेशलमिति वा पाठः । पेशलं कोमलम् । “ कोमलं मुदु पेशलम् " इति धनञ्जयः । नयनसलिलैः अश्रूदकैः। आप्लुतापाण्डुगण्डम् । आप्लुतावातिौ आपाण्डू ईषत्पाण्डू गण्डौ यस्य तत् तथोक्तम् । “आप्लुतः स्नातके स्नाते” इति विश्वः । शय्योत्सङ्गे शयनतले । दुःखदुःखेन दुःखप्रकारेण । “ रिद्गुणस्सदृशः ” इत्यादिना द्विरुक्तिः । असकृत् अनेकशः । निहितं विन्यस्तम् । गात्रं शरीरम् धारयन्ती वहन्ती । सा त्वत्सखी। अन्तर्विचलितधृतिम् अन्तःप्रकम्पितधैर्यम् " धृतिर्धारणधैर्ययोः” इत्यमरः । त्वामपि भवन्तमपि । तां दशां तदवस्थाम् । नेतुं प्रापयितुम् । अर्हेत् योग्या भवेत् । तां दृष्ट्वा त्वमपि दुःखितो भवसीत्यर्थः ॥ ५२ ॥
अत्रात्यन्ताशत्तया मूर्छावस्था सूच्यतेशय्योपान्ते भृशमपसुखा मत्स्यलोलं लुलन्ती
बद्धोत्कम्पश्वसितविवशा कामपात्रायिता सा। त्वामप्यासं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥५३॥३३॥३०॥ शय्योपान्त इति ॥ शय्योपान्ते शय्यापार्श्वे । अपसुखा सुखरहिता । मत्स्यलोलं मत्स्यानांलोलं चञ्चलं यथा तथा। “लोलश्चलसतृष्णयोः" इत्यमरः। भृशम् अत्यन्तम् ।लुलन्तीलुठन्ती । बद्धोत्कम्पश्वसितविवशा सम्बद्धोत्कम्पनश्वासयोरधीना । कामपात्रायिता कामपात्रा