________________
२१६
पार्श्वाभ्युदयकाव्यं
कपोलविस्फोटौ ” इत्यमरः । असकृत् मुहुर्मुहुः । तारयन्तीम् अपसारयन्तीम् । तां पश्य। असकृत्सारणेन चित्तविभ्रमदशा सूच्यते ।।
पादानिति ।। इष्टान् अभिमतान् । बन्धून् बान्धवान् । मृगयितुम् अन्वेषयितुम् । संश्रितानिव आश्रितानिव । जालमार्गप्रविष्टान् गवाक्षविवरागतान् । अमृतशिशिरान् अमृतमिव शिशिरान् । सुधावदतिहितस्पर्शान् । इन्दोः सुधांशोः । पादान् रश्मीन् । " पादा रश्म्यङ्घ्रितुर्याशाः ” इत्यमरः । पूर्वप्रीत्या पूर्ववदानन्दकरा भविष्यन्तीत्यर्थः । सङ्ग्रहीतुं सङ्ग्रहणाय । अभिमुखं सम्मुखं यथा तथा । गतं यातम् । तथैव तत्प्रकारेणैव । सन्निवृत्तं प्रत्यागतम् । स्वनयनयुगं निजनेत्रद्वयम् । प्रत्याहृत्य अपहृत्य । चेतसा मनसा । धूयमानां कम्पमानाम् । तां पश्य । चन्द्ररश्मिस्पर्शे विरहिणां दुःखमेवेति
भावः ।। ५० ॥
भूय इति । शिशिरकिरणे शिशिराः तुषाराः किरणाः यस्य तस्मिन् चन्द्रे । भूयोभूयः पुनः पुनः । स्वान् स्वकीयान् । करान् किरणान् । जालमार्गः गवाक्षविवरैः । पुनरपि आतन्वाने पुनरपि विस्तार्यमाणे सति । गताभ्यागतैः याताभ्यायातैः । क्लिश्यमानं विबाध्यमानम् । चक्षुः दृष्टिः । खेदात् विषादात् । सलिलगुरुभिः अब्भरितैः । पक्ष्मभिः नेत्रलोमभिः । छादयन्तीं वारयन्तीम् । अत एव । सा मेघसहि । अह्न दिवसे । दुर्दिन इत्यर्थः । न प्रबुद्धां न विकसिताम् ।
I
सुप्तां न मुकुलिताम् । उभयत्रापि नञ् । नशब्दस्य " सुप्सुपा " इति समासः । स्थलकमलिनीमिव स्थलपद्मिनीमिव । स्थिताम् । तां त्वत्सखीम् । पश्य प्रेक्षस्वेति पूर्वेणान्वयः । एतेन विषयद्वेषाख्यं सूचितम् । नवभिः कुलकम् ॥ ५१ ॥
सा संन्यस्ताभरणमबला पेलवं धारयन्ती
वीताहारा नयनसलिलैराप्लुता पाण्डुगण्डम् ।