Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
________________
पंचास्तिकाय प्राभृत श्रीजयसेनाचार्यकृततात्पर्यवृत्तिः स्वसंवेदनसिद्धाय जिनाय परमात्मने ।
· शुद्धजीवास्तिकायाय नित्यानन्दचिदे नमः ।।१।। अथ श्रीकुमारनन्दिसिद्धान्तदेवशिष्यैः प्रसिद्धकथान्यायेन पूर्वविदेहं गत्वा वीतरागसर्वज्ञश्रीमंदरस्वामोतीर्थकरपरमदेवं दृष्ट्वा तन्मुखकमलविनिर्गतदिव्यवाणीश्रवणावधारितपदार्थाच्छुद्धात्मतत्त्वादिसारार्थ गृहीत्वा पुनरप्यागत: श्रीमत्कुन्दकुन्दाचार्यदेवैः पद्मनन्यायपराभिधेयैरन्तस्तत्त्वबहिस्तत्त्वगौणमुख्यप्रतिपत्त्यर्थ, अथवा शिवकुमारमहाराजादिसंक्षेपरुचिशिष्यप्रतिबोधनार्थ विरचिते पञ्चास्तिकायप्राभृतशास्त्र यथाक्रमेणाधिकारशुद्धिपूर्वकं तात्पर्यार्थव्याख्यानं कथ्यते । __(उपोद्घात:) तद्यथा-प्रथमतस्तावत् “इंदसयवदियाणं' इत्यादिपाठक्रमेणकादशोत्तरशतगाथाभिः पञ्चास्तिकायषद्रव्यप्रतिपादनरूपेण प्रथमो महाधिकारः, अथवा स एवामृतचन्द्रटीकाभिप्रायेण त्र्यधिकशतपर्यन्तश्च । तदनन्तरं "अभिवंदिऊण सिरसा'' इत्यादि पञ्चाशद्गाथाभिः सप्ततन्ननवपदार्थव्याख्यानरूपेण द्वितीयो महाधिकारः, अथ स एवामृतचन्द्रटीकाभिप्रायेणाष्टाचत्त्वारिशहाथापर्यन्तश्च । अथानन्तरं जीवस्वभावों इत्यादि विंशतिगाथाभिर्मोक्षमार्गमोक्षस्वरूपकथनमुख्यत्वेन तृतीयो महाधिकार इति समुदायेनैकाशीत्युत्तरशतगाथाभिर्महाधिकारत्रयं ज्ञातव्यं । तत्र महाधिकारे पाठक्रमेणान्तराधिकाराः कथ्यन्ते । तद्यथा-एकादशोत्तरशतगाथामध्ये "इंदसय'' इत्यादि गाथामादिकृत्त्वा गाथासप्तकं सभव्यशब्दार्थपीठिका व्याख्यानमुख्यत्वेन, तदनन्तरं चतुर्दशगाथाद्रव्यपीठिका व्याख्यानेन, अथ गाथापञ्चकं कालद्रव्यमुख्यत्वेन, तदनन्तरं त्रिपञ्चाशद्गाथा जीवास्तिकायकथनरूपेण, अथ गाथादशकं पुद्गलास्तिकायमुख्यत्वेन, तदनन्तरं गाथासप्तकं धर्माधर्मास्तिकायव्याख्यानेन. अथ गाथासप्तकमाकाशास्तिकायकथनमुख्यत्वेन, तदनन्तरं गाथाष्टकं चूलिकोपसंहारव्याख्यानमुख्यत्वन कथयतीत्यष्टभिरन्तराधिकारैः पञ्चास्तिकायषद्रव्यप्ररूपणप्रथममहाधिकारे समुदायपातनिका । तत्रा गन्तराधिकारेषु मध्ये प्रथमत: सप्तगाथाभि: समयशब्दार्थपीठिका कथ्यते नासु सप्तगाथा मध्य गाथाद्वयेनेष्टाधिकृताभिमतदेवतानमस्कारों मङ्गलार्थ:, अथ गाथात्रयेण पञ्चास्तिकायसंक्षेपव्याख्यानं, तदनन्तरं एकगाथया कालसहितपञ्चास्तिकायानां द्रव्यसंज्ञा, पुनरेकगाथया संकरव्यतिकरदोषपरिहारमिति समयशब्दार्थपीठिकायां स्थलत्रयेण समुदायपातनिका ।।
तात्पर्यवृत्ति के हिन्दी अनुवादक का मंगलाचरण वंदों वीर महाप्रभु, सन्मति सुख दातार । वर्द्धमान अतिवीरको, महावीर गुण धार ।।१।। वृषभ आदि तेईस जिन, भरत तीर्थ कर्तार । तिनके वंदों युग चरण, पावन परम उदार ।। २।। सर्व सिद्ध सुखकार हैं, स्वातम तत्व मंझार । सुधा-सिंधुमें नित मगन, वन्दों बारम्बार ।।३।। आचारज उवझाय मुनि, संगरहित शम धार । क्षमा आदि धारक सतत, निज गुण मगन अपार ।। ४।। कुन्दकुन्द मुनिराजके, चरण ध्यान दातार । समयसारमें रति करें, सुमरों सुमति प्रचार ।।५।।
Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 421