Book Title: Nyayasamucchaya Author(s): Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 6
________________ झटिति समेषां प्रवेशाय खयमेव टीकोपटीका अपि रचयामास, येन च स्वकीयाशये विसंवादोऽपि परिहतः । अपरं चास्य वैशिष्ट्यमपरमतं खानुमतं चेत् तच्छन्दैरेव तत् स्वीकृतं, न तत्र कश्चन परिवर्तो विहितः । दृश्यते बहुषु ग्रन्थकर्तृषु दोषोऽयं यद्-अन्यदीयमतं खवचोभिस्तथा समाच्छाद्य खीकुर्वते यथा तत्तदुपज्ञमेव प्रतीयेत, तत्र च खीययशःख्यापनैव हेतुः, वीतरागस्य मुनेरस्य च केवलं लोकोपकृतिरेव प्रवर्तिकेति दोषोऽयं नाङ्गीकृतः । यच्च तत्र तत्र यदुक्तिः स्वीकृता, तदीयनामोल्लेखो न कृतस्तत् तस्मिन् समये तस्य तस्य पाठस्यातिप्रसिद्धतयाऽनावश्यकत्वबुद्ध्यैव, न प्रच्छादनाय, तन्निमित्ताभावात् । एतदीया प्रतिभा चैतावतैवानुमेया यत्-सपादलक्षश्लोकमितमिदं पञ्चाङ्गापूर्ण व्याकरणमेकेनैव वत्सरेणात्मनैव पूरितमिति प्रसिद्धमितिहासमर्मज्ञानाम्, यतः ११९३ मिते विक्रमवत्सरे सिद्धराजेन व्याकरणरचना प्रार्थिता, ११९५ वि. द. आदौ बैतत् पूरयित्वा तस्मै दत्तमिति प्रसिद्धिः।। न केवलं व्याकरण एवैतस्याचार्यवरस्य प्रतिभा, काव्ये योगे कोशे न्याये स्तुत्यादौ च सर्वत्रास्य तथाभूता दृश्यते स्मेति तदीयतत्तद्विषयकग्रन्थैरेवावगम्यते । सर्वेष्वेतेषु विषये प्रमाणभूता बुधजनसम्मताश्च ग्रन्था विरचिता इति दृष्य 'कलिकालसर्वज्ञ' इति ख्यातिमलभतायं तदातनबुधसदसि । सूत्रपाठ-गणपाठ-धातुपाठादीन् रचयताऽनेन व्याकरणप्रक्रियोपकारका न्याया अपि साकल्येन पठिता व्याख्याताश्च भवेयुः, परमधुनाऽसौ ग्रन्थो नोपलब्ध इत्यनुमीयते । यद्यपि स्वोपज्ञबृहद्वृत्तिग्रन्थान्ते-"ये हि शास्त्रे सूचिता लोकसिद्धाश्च न्याया न तदर्थ यत्नः क्रियते" इत्युक्त्वा *खं रूपम् * इत्यादीन् *नानिष्टार्था शास्त्रप्रवृत्तिः* इत्यन्तान् ५७ सप्तपञ्चाशच्यायान् उलिलेख । तेन च स्पष्टमेव विज्ञायते यत्-तावत्कालपर्यन्तं न्यायव्याख्यानकृते न प्रयतितमाचार्येण । अत्र च शास्त्रे सूचिता इत्युक्त्या न्यायानां शास्त्रज्ञापितत्वं, लोकसिद्धाश्चत्युत्तया च तेषां शास्त्रलोकोभयप्रसिद्धत्वं सूचितम् । शास्त्रसूचितत्वमेतेषां तत्र तत्र तत्तच्यायव्याख्यायां प्रतिपादितमेव सिन्धुकृता । लोकसिद्धत्वं च न सर्वेषामुपपादयितुं शक्यम् , केषांचित् शब्दशास्त्रमात्रविषयाणां लोकसिद्धत्वस्य दुरुपपादत्वात् । तथा च तत्त्वं *सहयरितासहचरित.* इत्यादीनामेवोभयत्र प्रवृत्ताना न्यायानामिति विज्ञेयम् । विस्तरतश्च तदुपपादन मिह नाभिप्रेतम् । अत्र च ये सप्तपञ्चाशच्याया आचार्येणोल्लिखितास्ते न साकल्येन परिगणनार्थमपि तु दिक्प्रदर्शनार्थमेव । तेनान्येऽपि तत्रान्तरोक्ताः स्वशास्त्रोपकारकास्तत्र तत्र बृहद्वृत्ति-शब्दमहार्णवन्यासादौ व्यवहृताश्च न्यायाः संग्रात्या एव । तेषां च संग्रहोऽनुग्रहेण लोकेषु सुगृहीतानामधेयेन सुविदुषा हेमहंसगणिना स्वोपज्ञन्यायसंग्रहे कृतः । तमेव संग्रहमाश्रित्य प्रकृतो न्यायार्थसिन्धुस्तरङ्गसहितो रचितोऽयम् । अत्र च हेमहंसगणी स्वीयसंग्रहे मजूषानामानं वृत्ति, तदुपरि बृहन्यासं च महता वैदुष्येण सम्पादयामास । तदीयपथेनैवात्र कार्येऽन्येषामपि शेमुषी समासादयत्यवकाशम्, अन्यथा दुर्गम एवायं मार्गः स्यात् । तदर्थं तस्य गणिनः सदुपकारे के न शिरसा धारयिष्यन्ति । । यद्यपि तदीयेन संग्रहेण स्वोपज्ञवृत्तिन्याससमुचितेनैतावत्कालपर्यन्तं सर्वे कार्य निर्वाहयन्ति स्मैव, तथापि तल्लेखस्यातिसुकोमल तयाऽपरिष्कृततया च नवीनानां परिष्काररुचीनां विशदव्याख्या स्पृहयालूनां च चेतो न सन्तोषमासादयति स्म, तामिमां जिज्ञासामपनेतुकामेन प्राच्यनव्योभयविधविचारचातुरीक्ता विततव्याख्यानलब्धख्यातिना बहुतरप्रन्थटीकोपटीकाकरणप्रसिद्धनाम्ना शिष्यवर्गवशंवदेन व्याकरणवाचस्पतिना शास्त्रसमुदयविशारदेन कविरलेन श्रीमता विजयलावण्यसूरिणा शब्दमहार्णवन्यासस्य त्रुटितस्थलेष्वनुसन्धानकारिणाऽस्य न्यायसमुच्चयस्य न्यायार्थसिन्धुनानी वृत्तिः, तरङ्गनामकं विवरणं च विहितम् । तदिदं ग्रन्थरत्नं प्राच्यनव्योभयमध्यगतशैलीमालम्ब्य विरचितमिति न कोमलमतीना पीडाकर न वा प्रौढधियां जिज्ञासापनोदाक्षममिति कामपि परां काष्ठां भजते समुपयोगस्य । अत्र क्वचित् तरङ्गे प्राचा हेमहंसगणिप्रभृतीनां व्याख्यानानि खण्डितानीव दृश्यन्ते, तच नवीनपथपरिष्करणाय छात्रमतिवैशयाय च, न तु खपाण्डित्यप्रख्यापनकृते इति स्वयमेव सूरिणा प्रकृततरजपुष्पिकायां स्पष्टमुक्तम् । यद्यपि तत्र तत्र सिन्धौ सामान्यतः, तरङ्गे च विशेषतः कचित् पातञ्जलमहाभाष्याधुद्धरणं प्रकृतानुपयुक्तमिव प्रतिभायात् पाठकानामित्यनुमीयते, तथापि साम्प्रतं तदीयमतस्य बहुलं विद्वत्समाजे समादृतत्वेन खपाठकानामपि तद्बोधस्यावश्यकत्वेन तद्बुद्धिवेशद्यनिमित्तमेवेति विचारणीय सुधीभिः । इत्थञ्च तरङ्गसहितोऽयं न्यायासिन्धुर्व्याकरणसिद्धान्तरमोद्दिधीर्षणां कृतेऽनायासेन तद्रनानि समर्पयन् सुबहुमानभाजनतां गत आचन्द्रतारकं पाठकानुपकुर्यादिल्याशासे। अवश्यमत्र मानुषमात्रसुलभास्त्रुटयोऽपि भवेयुः किन्तु गुणैकपक्षपातिभिर्दोषवाचंयमैस्ताः स्वत एव संशोध्य ग्रन्थोऽयमुपयोक्ष्यते, सूचयिष्यते च ग्रन्थकर्ता तत्परिहारायेति प्रार्थयमानो विरमति द्वारबङ्गनगरम् , [दरभंगा]] फाल्गुन शुक्रपञ्चमी “विश्वम्भर' झा शर्मा २०११ वि. वत्सरस्य व्या. सा. वेदान्ताचार्यःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 206