Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 5
________________ अत्रेदमपि विचारमर्हति-पाणिनिना प्रायः सन्धिविषये स्वर उदात्तादि विषये चाचार्यविशेषस्य मतविभेदः सूचितः, आख्यातविषये च एकत्राडागमविषये गाये-गालवयोः, इडागमविषये च भारद्वाजस्य, तिभित्तयादेशविषये च शाकटायनस्य सकृत्सकृन्नामोल्लेखः कृतः तेनेदमपि निश्चेतुं शक्यते, यत्-एते पाणिन्युल्लिखिताः शाब्दिकाः प्रातिशाख्यकर्त्तारो भवेयुः, तत्र सन्धिस्वरयोरेव विचारितत्वात् , तदतिरिक्ताडागमादिविषये च सकृन्नामोहखेन तेयो प्रयोगविशेषविषयो मतभेद एव बोधितो न तु व्याकरणनिर्मातृत्वम् । अमर-जैनेन्द्रयोस्तु पाणिनिपरभवत्वं सुप्रसिद्धमेव । एतावता पाणिनीयमेव व्याकरणं सम्प्रति समुपलभ्यमानव्याकरणेषु प्राचीनमिति केचित् साधयन्ति । तत्र ब्रूमः,-पाणिनितः पूर्वतरस्य व्याकरणस्य सम्प्रत्यनुपलभ्यमानत्वेऽपि सत्ताऽवश्यमशीकार्या, पाणिनिनैव तत्र तत्र प्राचीनव्याकरणप्रचलितसंज्ञानां प्रत्याहारादीनां चोखात् , ततः परतरैव्याख्यातृभिः 'प्राचां व्याकरणकर्तणामियं संज्ञा' इति स्पष्टं व्यास्यायमानत्वाच । किंच वाल्मीकीये रामायणेऽपि व्याकरणस्य नामोल्लेखो दृश्यते, तथाहि-हनूमद्विषये श्रीरामचन्द्रेण श्रीलक्ष्मणं प्रत्युक्तम्-- "नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥'वा० रा. किष्किन्धाकाण्डे 7 इति एतेन तत्समयेऽपि व्याकरणसत्ता प्रतीयते । नच पाणिनीयव्याकरणस्य तदात्वे सम्भव इति किञ्चिदन्यदेव व्याकरणं तदात्वे स्वीकार्यम् । वेदाङ्गेषु मुख्यतया पठितं व्याकरणं सृष्टेरादिकालादारभ्यैव प्रचलितमिति मन्तव्यम् । समये समये चाचायैस्तत्र परिवर्तन परिवर्द्धनं वा लोकसौकर्याय कृतमित्यन्यदेतत् । किच चीनदेशाद् भारतभ्रमणार्थमागतः श्यूआनचूआननामकः पर्यटकोऽपि पाणिनिविषये बहु लिखन्निदमप्याह यत्-पाणिनेः पूर्व बहूनि व्याकरणानि परस्परविरुद्धानि विशृङ्खलानि च प्रचलन्ति स्म इति, तन्मतं चैतिहासिकैराद्रियत एव, तस्य तदर्थमेव निष्पक्षपातं प्रवृत्तत्वात् । एवं यथा पाणिनितः पूर्वपि बहुतराणां व्याकरणान्तराणां सत्त्वेऽपि कंचिद्विशेषमवलम्च्य पूर्वव्याकरणेषु वा काचिन्यूनतामवधार्य पाणिनिनाऽऽचार्येश व्याकरण निर्मितं तथा पाणिनितः परतरैरपि कैश्चिदाचार्यः पाणिनीयव्याकरणस्य काठिन्यादिदोषमनुभूय लोककल्याणार्थ व्याकरणान्तराणि सरलानि कोमलबुद्धीनामप्युपयोगीनि निर्मिता नीति समवधेयम् । पाणिनिपश्चाद्भवानि-कातन्त्र-चान्द्र-बुद्धिसागर-सरस्वतीकण्ठाभरणादीनि व्याकरणानि श्रूयन्ते, यानि च स्वल्पप्रसराणि जातानि । एवं क्रमेण व्याकरणानां बाहुल्यं दुरुहत्वं चावलोक्य गुर्जरक्षमापतिना जयसिंहदेवेन खविक्रमलब्ध सिद्धराज'पदेन प्रार्थितः प्रथितयशा आचार्य श्रीहेमचन्द्रसूरीश्वरः सर्वाणि व्याकरणानि प्रमथ्य नवनीतमित्र नूतनं व्याकरणं निरमात् । एतच्चैतद्व्याकरणपुष्पिकायां खयमेव स्पष्टीकृतमाचार्येण । तथाहि तस्यान्वये समजनि प्रवलप्रतापतिम्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ, श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ ३३ ॥ तेनातिविस्तृत-दुरागम-विप्रकीर्णशब्दानुशासनसमूहकर्थितेन। अभ्यर्थितो निरवमं विधिवद् व्यधत्त, शब्दानुशासनमिमं मुनिहेमचन्द्रः ॥ ३४ ॥ एतत्कृतेन व्याकरणेन व्याकरणान्तराणामनावश्यकत्व मित्थमुक्तं प्रबन्धचिन्तामणी "भ्रातः संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? । किं कण्ठाभरणादिभिर्बठरयस्यात्मानमन्यैरपि,। श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥” इति । यद्यपि पाणिनीयच्याकरणे आचार्यश्रीहेमचन्द्रसूरीश्वरस्यास्थाऽऽसौदेवेति तन्मतस्य यत्र तत्र न्यासादिषु समातरवेनानुमीयते, तद्भाष्यकर्तरि च समादरस्तस्य तत्कृतशब्दमहार्णवन्यासमङ्गलश्लोकतोऽवगम्यत एव तथापि तद्भक्त्या प्रकृतवर्णनीयसिद्धहेमव्याकरणस्य स्तुतिविशेषाद्वोधनाय वा पाणिनिप्रलपिपमिति प्रकृतपद्यकर्तुर्वचः ।। एतावचावश्यमेव स्वीकरणीयं यत्-स्वल्पेन कालेन मन्दबुद्धीनामपि व्याकरणे सम्यक प्रवेशाय सिद्धहेमशब्दानुशासनमनुपम साधनम् । अतः परमस्याचार्यस्य विषयेऽधिकसमुल्लेखनमनावश्यकमेव । अस्याचार्यवर्यस्यायमपि विशेषः सातिशायी यत्-वीयग्रन्थेषु www.amam

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 206