Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 3
________________ भूमिका। अये सुरसरस्वतीसमुपासकाः ! "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमाते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ १॥" इति भर्तृहरिवचसाऽनुभवानुमोदितेन सकलोऽपि सचेतसां ज्ञानविषयोऽनुस्यूतः शब्देन । एतच्च तेनैवान्यत्रापि दृढीकृतम् "वाग्रूपता चेदुत्क्रामे-दवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, साहि प्रत्यवमर्शिनी॥२॥" अपि च "इदमन्धं तमः कृत्स्नं, जायेत भुवनत्रयम् । यदि वागात्म ज्योति-रा संसारं न दीप्यते ॥ ३ ॥" इति न केवलं ज्ञान विषय एव, अपि तु सर्वोऽपि व्यवहारोऽखिलमिदं विश्वमेव वा शब्दस्यैव प्रपञ्चः ; तदपि तेनैवोक्तम् “अनादिनिधनं ब्रह्म, शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन, प्रक्रिया जगतो यतः ॥ ३॥" युक्तं चैतत्-पूर्व नाम्ना वस्तु बुद्धावानीय घट महं करोमीति संकल्प्य पश्चान्निर्मीयत इति नामपूर्वकत्वं रूपस्य घटादिप्रपञ्चे सर्वेष्टचरमेव । अनयैव व्यायाऽस्य महतो जगतोऽपि नामपूर्वकत्वमनुमातुं शक्यत एव, एतच्च विशदग्यान्यत्र प्रपञ्चितम् । नामानि च शब्दा एव। _इत्थं सर्वस्य ज्ञान प्रपञ्चस्य रूपप्रपञ्चस्य च कारणभूतत्वं शब्दझनामनुभवानुमोदितमागमसिद्धं चेति निर्विवादमेव । शब्दाश्चानेकधा बहुभित्रिवेचिताः, केचिल्लौकिकवैदिकभेदेन द्वैविध्यमाहुः, अन्येऽन्यथा विभिन्दन्ति, वयं विह शास्त्रीय व्यावहारिकभेदेन द्वैविध्यमास्थाय विचारयामः । तत्र व्यावहारिकी भाषा परस्परं व्यवहारेणापि कथंचिदवगन्तुं सुशका, व्यवहारातीता शास्त्रीया भाषा च केवलं व्याकरणसाभ्यबोधवेति निश्चितम् , अत एव शक्तिप्राहकेषु व्याकरणस्य प्राधान्यमाहुरभियुक्ताः । तथाहि--- “शक्तिग्रह व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च ।। वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य बृद्धाः ॥ ४॥” इति । कञ्चित् शब्दमजानानः शिशुर्व्यवहारत एव तदर्थ प्रतिपद्यते । या च भाषा व्यवहारविषया तस्यास्तत्तच्छब्दैवृद्धानां तेषु तेषु पदार्थेषु प्रवृत्तिनिवृत्ती समवलोक्यैव स [शिशुः] भाषायां व्युत्पद्यत इति सर्वदा प्रत्यक्षभूतं नः । येषां च पितरावन्ये वा वयोवृद्धाः संस्कृतज्ञा विदेशीयभाषाज्ञा वा संस्कृतेन विदेशीयभाषया वा व्यवहरन्ति ते विनाऽपि प्रयत्नं तस्यां भाषायां व्युत्पद्यन्ते, परमेतत् क्वाचित्कम् । अस्माकमियं संस्कृतगीरद्यत्वे व्यवहारातीतेति निश्चितमेव, तस्याश्चावगमाय व्याकरणातिरिका उपमानादय उपायाः कश्चित् कदाचित पदविशेषज्ञानमात्रोपयुक्ता एवेति न तैः साकल्येन सारल्येन च संस्कृतगिरोऽवगतिः सम्भविनी, ततश्चास्या भाषायाः परिज्ञानाय व्याकरणं कोशश्चेति द्वावेवोपायाववशिष्टौ, तत्रापि कोशो नाम्नां शक्तिग्रहमात्र उपयुज्यते । भाषा च मुख्यरूपेण नामाख्यातोभयोपहितेति सर्वाशेन तस्या ज्ञानाय व्याकरणं शास्त्रमेव प्रधानमेकमेव वा कारणम् , अत एव व्याकरणं समये समये पूर्वाचायैर्लोकसौविध्यानुसारं निर्मितम्। __कि व्याकरणं प्राचीनतममित्यस्य, कुतो वा समयाद् व्याकरणप्रवृत्तिरित्यस्य वा विवेचनायो प्रस्तुतायां तन्मूलमिदं वेदे समुपलभ्यते। ___ "वाग वै पराच्यव्याकृता अवदत्, ते देवा इन्द्रमब्रुवन् , इमां नो बाचं व्याकुरु इति । सोऽब्रवीत, वरं वृणै, मह्यं चैवैष वायवे । तस्मादन्द्रा वायवः सह गृह्यते । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् तस्मादिय ब्याकृता वागुद्यते।" इति । तैत्तिरीये षष्ठकाण्डे ] अस्मायमभिप्रायः-यथा पश्चादीनां वागसंस्कृता-अविभक्ता भवति, नहि तत्र पदवाक्यादिविभागः कथमप्युनीयते, तथैव rammar

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 206