Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 435
________________ ३८४ न्यायमञ्जयां [चतुर्थम् तथा च शान्तचित्तानां सर्वभूतदयावताम् । वैदिकोष्वपि हिंसासु विचिकित्सा प्रवर्तते ॥ अभिचारादिहिंसायां वैदिक्यामपि भवतु कामं हृदयोत्कम्पः, करणांशोपनिपातिनी हि हिंसेति लिप्सातस्तस्यां प्रवृत्तिः। यत्त्वग्नीषोमीयादिपशुहिंसा इतिकर्त्तव्यतांशस्था, यस्यां क्रत्वर्थो हि शास्त्रादवगम्यते इति वंदी प्रवृत्तिस्तस्यामपि कारुणिको लोकः सविचिकित्सो भवति वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः" इति । न चैतावता वेदस्याप्रामाण्यम्, एवमागमान्तरेष्वपि भविष्यति। यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरण10 कृतः (प्रत्यवायः ) कालान्तरेऽवश्यं भावीत्युक्तम्, तदपि न युक्तम् तस्यार्थस्य तदा गमनिषिद्धत्वाभावात्. आगमान्तरनिषिद्धत्वेऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरुषार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन् सिद्धे कुतः प्रत्यवायः? भवतु वा कालान्तरे ततः प्रत्यवायस्तथाप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव नागमप्रामाण्यमत्र हीयते । 'श्येनेनाभिचरन् यजेते' त्यत्राभिचरन्निति शत्रा लक्षितनिषेधमधिकारिणमाचष्टे । तस्य च श्येनयागश्वोदितः। स च तत्प्रयोगात् कृतवधः प्रत्यवत्येव। न च वेदस्याप्रामाण्यम् । उक्तञ्च 'उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्चेति। 15 भवतु कामं हृदयोत्कम्पः, तस्यां हिंसायां विधेरव्यापारात् । कथमव्यापारश्चेत् तदाह करणांशोपनिपातिनी हीति । 'श्येनेनाभिचरन् यजेत' इत्यत्र हि श्येनयागा भिचारयोरुपायोपेयतापरिज्ञानमात्रेऽधिकारे विधेयापारः प्रवृत्तौ तु तत्र विविरुदास्ते 20 लिप्सातस्तत्र प्रवृत्तिसिद्धेः। तदुक्तम् 'यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणा' इति । क्रत्यर्थः पुनः क्रतूपकारको योऽग्नीषोमीयपश्वालम्भादिस्तस्य फलं प्रति करणत्वस्य साक्षादनवगमात् तत्र लिप्सातः प्रवृत्तेरभावः, प्रवृत्तौ चासत्यां सेतिकर्तव्यताकस्य क्रतोरनिर्वाहात् । तत्र शास्त्रविधिरेव प्रवर्तकः। तदुक्तं भाष्यकृता "क्रत्वों हि शास्त्रादवगम्यते” इति । अतोऽसावभिचारोऽवैधः शास्त्राविहित इति । तथाप्यधिकारिभेदेनेति । यस्तज्जन्यफलकामस्तदपेक्षया । शत्रा लङ्क्तिनिषेधमिति । अभिचरन्निति हि शतृप्रत्ययो लक्षणे। लक्षणञ्च पूर्वसिद्धं भवति । 'शयाना भुञ्जते यवनाः' इति

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544