Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 465
________________ ४१४ 10 यद्यपि च 'अग्निवृत्राणिजङ्घनदि 'ति वेदे कृतणत्वमग्निशब्दं पठन्ति 'उत्ताना 5 वै देवगवा वहन्ति वनस्पते हिरण्यपर्ण प्रदिवस्ते अर्थमिति लौकिकवैदिकयोः शब्दयोरर्थयोश्च नानात्वमिवाशङ्क्यते, तथापि तथात्वं प्रत्यभिज्ञानेनावधार्य ईषद्विकृतास्त एव वेदे इति लौकिक्येव व्युत्पत्तिः । लोकप्रसिद्धिविप्रतिषेधे तु शास्त्रवित्प्रसिद्धिः प्रमाणीक्रियते यथा 'यवमयश्चरु' 'वराही उपानहौ' 'वैतसे कटे प्राजापत्या सश्विनोती' तियववरा हवेत सशब्दादीर्घ शूक सूकर वञ्जुलकेषुशिष्ट प्रसिद्धया नियम्यन्ते, 15 न्यायमञ्जय [ चतुर्थम् ब्राह्मणवाक्यवदुपायतस्तदर्थावगमदर्शनात् । उपायश्च प्रथमस्तावद् वृद्धव्यवहार एव । तुल्यत्वाल्लोके वेदे शब्दार्थानाम् । य एव लौकिकाः शब्दास्त एंव वैदिकास्त एव चैषामर्था इति । 20 अमिशब्दः सहार्थे अमि सह अञ्चतीत्यम्यक् या तव सहचारिणीत्यर्थः । अग्निः चित् हि स्म अग्निरिव हि अतसे शुष्कतृणे, शुशुकान् दीप्तवान् शुष्क तृणप्रज्वलिताग्नितुल्या या लक्ष्यत इत्यर्थः । येऽयेते मरुतः सनेमि पुराणमभ्वं तोयं जुनन्ति वृष्टिरूपेण क्षरन्ति । अत एव प्रयस्यन्नाद्यानि दधति धारयन्ति तव सखाः तेऽप्यस्माकमेव कथं (अत्र टीकाग्रन्थो नष्टः) तावच्छ्ब्दौ प्राङ्नीत्या प्रहरणहिंसापरी सति च प्रहर्तव्ये तत्परत्वमनयोर्नान्यथा अश्विनोश्च देवभिषजोर्जरणमरणे एव प्रहर्तव्यहंसितव्ये च नान्यत् । अत उक्तम् जरणमरणनिमित्ताविति । यत एव च जरामरणयोः प्रहर्तारौ हिंसितारौ चाश्विनावत एव ताभ्यामजरत्वममरत्वञ्च प्रार्थितवानगस्त्य इति । 'एकया प्रतिधापिवत् साकं सरांसि त्रिशतम् । इन्द्रः सोमस्य काणुका' इति मन्त्रेणेन्द्रः स्तूयते । एकया प्रतिधा एकेन प्रयत्नेन साकं युगपत् त्रिशतं सरांसि पात्राणि सोमस्य पूर्णानीन्द्रोऽपिबत् । काजुका कामयमानः सन् । अग्निवृत्राणीति । अग्निर्वृत्राणि पापानि जङ्घनदत्यर्थं हतवानित्यर्थः । हिरण्यपर्णेति । न हि लोके वनस्पतीनां हिरण्मयपर्णत्वमित्यर्थान्यत्वम् । वाराही उपानहौ वराहचर्मनिर्मिते । वैतसे कट इत्यश्वमेधे श्रूयत एतत् । वेतसनिर्मिते कटे प्रजापतिदेवताकानश्वादिनानापश्ववयवान् सञ्चिनोति सहचरयति । शिष्टप्रसिद्धया शास्त्र25 वित्प्रसिद्धया । तथाहि ‘यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषं यत्रान्या ओषधयो म्लायन्ते तत्रैते मोदमाना इवोत्तिष्ठन्तीति'; न चैवंरूपता प्रियङ्गुषु सम्भवति, सर्वोषधिसाधारणे शरत्समये तदुद्भवात्; यवानान्तु ग्रीष्मे समुद्भवः, अतस्तेष्वेव प्रत्ययस्तस्माद् ।


Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544