________________
४१४
10
यद्यपि च 'अग्निवृत्राणिजङ्घनदि 'ति वेदे कृतणत्वमग्निशब्दं पठन्ति 'उत्ताना 5 वै देवगवा वहन्ति वनस्पते हिरण्यपर्ण प्रदिवस्ते अर्थमिति लौकिकवैदिकयोः शब्दयोरर्थयोश्च नानात्वमिवाशङ्क्यते, तथापि तथात्वं प्रत्यभिज्ञानेनावधार्य ईषद्विकृतास्त एव वेदे इति लौकिक्येव व्युत्पत्तिः । लोकप्रसिद्धिविप्रतिषेधे तु शास्त्रवित्प्रसिद्धिः प्रमाणीक्रियते यथा 'यवमयश्चरु' 'वराही उपानहौ' 'वैतसे कटे प्राजापत्या सश्विनोती' तियववरा हवेत सशब्दादीर्घ शूक सूकर वञ्जुलकेषुशिष्ट प्रसिद्धया नियम्यन्ते,
15
न्यायमञ्जय
[ चतुर्थम्
ब्राह्मणवाक्यवदुपायतस्तदर्थावगमदर्शनात् । उपायश्च प्रथमस्तावद् वृद्धव्यवहार एव । तुल्यत्वाल्लोके वेदे शब्दार्थानाम् । य एव लौकिकाः शब्दास्त एंव वैदिकास्त एव चैषामर्था इति ।
20
अमिशब्दः सहार्थे अमि सह अञ्चतीत्यम्यक् या तव सहचारिणीत्यर्थः । अग्निः चित् हि स्म अग्निरिव हि अतसे शुष्कतृणे, शुशुकान् दीप्तवान् शुष्क तृणप्रज्वलिताग्नितुल्या या लक्ष्यत इत्यर्थः । येऽयेते मरुतः सनेमि पुराणमभ्वं तोयं जुनन्ति वृष्टिरूपेण क्षरन्ति । अत एव प्रयस्यन्नाद्यानि दधति धारयन्ति तव सखाः तेऽप्यस्माकमेव कथं (अत्र टीकाग्रन्थो नष्टः) तावच्छ्ब्दौ प्राङ्नीत्या प्रहरणहिंसापरी सति च प्रहर्तव्ये तत्परत्वमनयोर्नान्यथा अश्विनोश्च देवभिषजोर्जरणमरणे एव प्रहर्तव्यहंसितव्ये च नान्यत् । अत उक्तम् जरणमरणनिमित्ताविति । यत एव च जरामरणयोः प्रहर्तारौ हिंसितारौ चाश्विनावत एव ताभ्यामजरत्वममरत्वञ्च प्रार्थितवानगस्त्य इति । 'एकया प्रतिधापिवत् साकं सरांसि त्रिशतम् । इन्द्रः सोमस्य काणुका' इति मन्त्रेणेन्द्रः स्तूयते । एकया प्रतिधा एकेन प्रयत्नेन साकं युगपत् त्रिशतं सरांसि पात्राणि सोमस्य पूर्णानीन्द्रोऽपिबत् । काजुका कामयमानः सन् ।
अग्निवृत्राणीति । अग्निर्वृत्राणि पापानि जङ्घनदत्यर्थं हतवानित्यर्थः । हिरण्यपर्णेति । न हि लोके वनस्पतीनां हिरण्मयपर्णत्वमित्यर्थान्यत्वम् । वाराही उपानहौ वराहचर्मनिर्मिते । वैतसे कट इत्यश्वमेधे श्रूयत एतत् । वेतसनिर्मिते कटे प्रजापतिदेवताकानश्वादिनानापश्ववयवान् सञ्चिनोति सहचरयति । शिष्टप्रसिद्धया शास्त्र25 वित्प्रसिद्धया । तथाहि ‘यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषं यत्रान्या ओषधयो म्लायन्ते तत्रैते मोदमाना इवोत्तिष्ठन्तीति'; न चैवंरूपता प्रियङ्गुषु सम्भवति, सर्वोषधिसाधारणे शरत्समये तदुद्भवात्; यवानान्तु ग्रीष्मे समुद्भवः, अतस्तेष्वेव प्रत्ययस्तस्माद् ।