________________
आह्निकम् ]
प्रमाण प्रकरणम्
1.
यज्ञस्य वैष गुणवादेन । संस्तवः । चत्वारि शृङ्गा इति वेदा उक्ताः त्रयोऽस्य पादा इति सवनानि, द्वे शीर्षे इति दम्पती यजमानौ, सप्त हस्तास इति च्छन्दांसि, त्रिधा बद्ध इति मन्त्रब्राह्मणकल्पैनिबद्धो बृषभ इति, कामान् वर्षति, 'रोरवीती 'ति स्तोत्र - शस्त्रप्रयोगबाहुल्याच्छब्दायमानः 'महोदेवो मर्त्यानाविवेशे 'ति मनुष्यकर्तृकत्वेनैवमेष यज्ञः स्तुतो भवति । तद् यथा चक्रवाकमिथुनस्तनी हंसदन्तावली शैवालकेशी काशवसनीति नदी स्तूयते ।
'ओषधे त्रायस्वनमिति चेतनवन्नियोगस्तस्याः स्तुत्यर्थ: । 'श्रृणोत ग्रावाण' इति प्रातरनुवास्तुतिः । इत्थं नामैष प्रातरनुवाकः 'प्रशस्यो यदचेतना ग्रावाणोऽपि श्रृणुयुः अदितिद्यौरदितिरन्तरिक्षमिति गुणवादादप्रतिषेधः । तद् यथा लोके त्वमेव मे माता त्वमेव मे पिता त्वमेव भगिनी त्वमेव मे भ्रातेति ।
यत्तु केषाञ्चिन्मन्त्राणामर्थो न ज्ञायते इति, पुरुषापराधः । अर्थावगमोपायेषु बहुषु सत्स्वपि तदन्वेषणालसः पुरुषो नार्थमवगच्छति न पुनर्मन्त्रोऽत्रापराध्यति,
४१३
यत्तु केषाञ्चिन्मन्त्राणामर्थो न ज्ञायत इति । तत्र 'अम्यक् सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति अग्निविद्धि ष्मातसे शुशुकानापो न द्वीपं दधति प्रयांसि' इति तावन्मन्त्रस्यायमर्थः ' अगस्त्योऽमरत्वं प्रार्थयमान इन्द्रमाह हे इन्द्र सा ते भवत्सम्बन्धिनी ऋष्टिरायुधविशेषः अस्मे अस्माकं स्थितैव, किंविशिष्टा ? अम्यक्
5
10
सवनानि प्रातः सवन, माध्यंदिनसवन, तृतीयसवनानि । छन्दांसि गायत्र्या - दीनि । कल्पो यज्ञसूत्रम् । कामान् स्वर्गादीन् । स एवंभूतो महो देवो महान् देवो यज्ञो मर्त्यान् मनुष्यान् आविवेश, तेषामेव यज्ञेऽधिकारात् । चत्वारि शृङ्गास्त्रिधा बद्ध इत्यनयोरथर्ववेदभक्त्या स्वव्याख्यानं कृतवान् ग्रन्थकारः, भाष्यकारस्तु चत्वारो होत्राः शृङ्गाणीवास्येति त्रिधा बद्धस्त्रिभिर्वेदैर्बद्ध इति च व्याचचक्षे । होत्रा इति ऋत्विग्विशेषाणां ब्रह्मन्-आच्छंसि- पोतृ- नेष्टृलक्षणानां चतुर्णामभिधानम्, तेषां यज्ञ नुखप्रदेशवर्तत्वाच्छृङ्गतुल्यत्वम् ।
ओषधे त्रायस्वेति । पशुसंज्ञापनकाले पशुपरित्राणार्थमध्वयुर्दर्भमाह 'ओषधे 20 त्रायस्वे'ति । तस्था अचेतना या श्वेतनवत्त्वसमारोपः स्तुतिः । प्रातरनुवा कस्तुतिरिति प्रातरनुवाकाख्यः शस्त्रविशेषः ऋग्वेदप्रसिद्धः । यदचेतना ग्रावाणोऽपि शृणुयुरित्यस्य किं पुनर्विद्वांसो ब्राह्मणा इति शेषः ।
15
25