________________
४१२
न्यायमञ्जऱ्यां
[ चतुर्थम शास्त्रान्तरे विस्तरतो निर्णीतम् इह तु वितन्यमानमस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते ।
यत्तु तदर्थविनियोगोपदेशादित्यविवक्षितार्थत्वमुक्तं तत्र 'उरु प्रथा उरु प्रथस्वे'ति लिङ्गादेव मन्त्रस्य प्रथनविनियोगसिद्धेः कामं तद्विधायकं वचनमनर्थक भवतु प्राप्तानुवादकत्वाद्, न तु प्रतीयमानो मन्त्रादर्थस्त्यक्तुं युक्तः। तत् किं वचनमनर्थकमेव ? नानर्थकम्, प्रतिपन्नार्थविषयन्तु तत् । अर्थवादार्थं वा तद्वचनम् । यज्ञपतिमेव तत्प्रथयतीति तद् यज्ञपति यजमानमेव प्रजया पशुभिः प्रथयतीति । क्वचित्तु गुणार्थविधानं यथा 'तां चतुभिरादत्ते' इति, एवम् 'अग्नीदग्नीन्विहरे'दि त्यादावपि द्रष्टव्यम्।
यत्तु नियतपदक्रमत्वादुच्चारणमात्रोपयोगिनो मन्त्रा इति तदप्यसाधु । मीमांसकानामनादित्वाद् वेदस्य तत्क्रमलङ्घनानुपपत्तेः । यथोक्तम् 'अन्यथा करणे चास्य बहुभ्यः स्यानिवारणम्' इति । अस्माकमपि यादृगीश्वरप्रणीतो वेदस्तदन्यथाकरणे किमध्येतृणां स्वातन्त्र्यमस्ति ? तस्मानार्थविवक्षाय मन्त्रक्रमः प्रभवति ब्राह्मणवाक्यक्रमवत्।
यदपि ' चत्वारि शृङ्गे'त्यविद्यमानार्थवचनमाशङ्कितम्, तदप्यनभिज्ञतया।
य
तद्विधायकम उरुप्रथा इति पुरोडाशं प्रथयतीति । प्रतिपन्नार्थविषयन्तु तदित्यनेन निरालम्बनत्वकृतमनर्थकत्वं परिहरति, अर्थवादार्थम् वेत्यनेन त्वनुवादमात्रत्वम् । क्वचित्तु गुणार्थविधानमिति । सन्त्यादानसमर्था मन्त्रा ‘देवस्य त्वा' इत्यादयः,
तान् पठित्वाह 'तां चतुभिरादत्ते' इति । तामित्यभिं; वेद्यर्थ मृत् खन्यते यया सा 20 अभ्रिः । तत्र तदादानप्रकाशनसामर्थ्यादेव मन्त्रेण तदादाने लब्ध पुनस्तां चतुर्भिरादत्त
इति वचनं निष्फलमाशङ्क्य सनुच्चितैश्चतुभिरादानं कार्य नैकैकेनेति समुच्चयलक्षणगुणस्य विशेषस्य विधानार्थम् । यद्यपि समुच्चयो न वाच्यस्तथाप्यसमुच्चितैरेकैकश आदानं क्रियमाणं कथं चतुर्भिरादानं कृतं स्यादिति फलतः समुच्चयलाभः। एवमग्नीदग्नीन्
विहरेति। अत्र यद्यपि तस्य ज्ञानं स्थितं मयैतत्कर्तव्यमिति तथापि प्रयोगकालेऽवश्यं 25 स्मर्तव्यं तत्, उपायान्तरेण स्मरणप्रतिषेधार्थ मन्त्रेण स्मृतं कर्तव्यमिति मन्त्रस्योपयोगः ।
अन्यथा करणे चास्येति । बहुभ्योऽध्येतृभ्यो निवारणम्, एवं मा पठीरिति ।