________________
आह्निकम् ]
प्रमाणप्रकरणम्
मर्था इति लोकव्यवहारतस्तद्वयुत्पत्तिसम्भवात् । नापि सम्भवन्त्यपि मन्त्रेभ्योऽर्थप्रतीतिः ग्रहैकत्वप्रतीतिवदविवक्षिता भवितुमर्हति, अविवक्षानिवन्धनस्य कस्यचिदप्यभावात, ग्रहादिवचनान्तरनितिसंख्यत्वात् सोमावसेकनिहरणस्य च सम्मार्गकार्यस्य सर्वग्रहसाधारणत्वाद, ग्रहम् इति विभक्तश्च कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तेः, युक्तमेकत्वमविवक्षितमिति कथयितुम् । इह तु 'बहिर्देवसदनं दामी'- 5 त्येवमादिवाक्यक्रियमाणं ऋतूपयोगिद्रव्यादिप्रकाशनम् तस्य विध्यपेक्षितत्वान्मन्त्रेण स्मृतं कर्म करोति । तथाक्रियमाणमभ्युदयकारि भवति इति न यज्ञाङ्गप्रकाशनमविवक्षितम् । अतो नोच्चारणमात्रोपकारिणो मन्त्राः । जपमन्त्राणान्तु 'पावमानी जपेदिति विधिनैव तावन्मात्राक्षेपणानार्थेन प्रकाशितेन प्रयोजनमिति । किं तत्र क्रियते ? यत्र तु जपेदिति विधिर्न श्रूयते न तत्र तदर्थः प्रतीयमानोऽपेक्ष्यमाणश्चो. 10 पेक्षितुयुक्तः।
___ ननु यदि जपेदिति विधेर्वैष्णव्यादिषु नार्थो विवक्ष्यते तहि स्वाध्यायोऽध्येतव्यः इत्यक्षरग्रहणमात्रविधानात् सर्वस्य वेदस्याविवक्षितार्थत्वं स्यात् । एतच्च
ग्रहैकत्वप्रतीतिवदिति । ‘ग्रहं सम्माष्टि' इत्यत्र ग्रहं निर्दिश्य सम्मार्गो विधीयते । निर्देशस्तु वचनान्तरनितिस्य भवति, वचनान्तरेण च नवसंख्योऽसौ विहित इत्येकत्वा- 15 विवक्षा। सोमावसेकः सोमावलेपः। अपेक्ष्यमाणश्चेति । यथा 'बहिर्देवसदनमि'त्यस्य द्रव्यप्रकाशनं योऽर्थः स विधिना अपेक्ष्यते ।
• सर्वस्य वेदस्याविवक्षितार्थत्वं स्यादिति । 'ननु कथमविवक्षितार्थत्वम्, स्वाध्यायाध्ययनविधेः स्वाध्यायोऽध्येतव्यः' इत्यस्यार्थज्ञानपरत्वादित्याह 'अक्षरग्रहणमात्रविधानात्' इति । 'स्वाध्यायोऽध्येतव्यः' पाठेनामुखीकर्तव्य इति हि तस्यार्थः । दृष्टो 20 हि तस्यार्थः कर्मावबोधनमिति । अतरग्रहणमात्रस्य निष्फलत्वादवश्यं विधिना प्रवर्तकशक्त्यविधाताय फलान्तरं कल्प्यम्। यावच्च कल्प्यते तावद् दृष्टमेवार्थावबोधनं लचित्यादि प्रथमाह्निकारम्भ एव प्रपञ्चितमिति। ननु 'यद् ऋचोऽधीते घृतकुल्या भवन्ति, यद् यजूष्यधीते मधुकुल्या भवन्ति' इति ऋगाद्यध्ययनात् फलान्तरश्रवणात् कथमर्थावबोध एव फलमिति । अतिप्रसिद्धोऽयमर्थः, प्रथमसूत्र एव मीमांसायामस्य विचारणादत 25 एवाह एतच्च शास्त्रान्तर इति । 'अन्यार्थत्वे स्वाध्यायस्यावगते तेषामर्थवादतयैव समन्वयः' इत्याधुत्तरमत्र ।